________________
४९-५० ] एकादशः सर्गः
५३१ गानमिति । सुदृशो गानं गीतचातुर्य कवित्वं कल्पनाशीलत्वं, मृदुता, माधुर्य, सत्य मित्येतच्चतुष्कमधिकृत्याथ तेषामेकत्र निवासिना मागः-प्रहाणये पारस्परिककलहनिवारणाय लेखत्रितयेन गले विभाग एव. कृतः, किन्तु खलु, तेषां निवाससौकर्यार्थमिति यावत् ॥ ४८ ॥
वदाम्यथो सौघनिधीश्वरन्तत्सहासमास्यं शुचिरश्मिवन्तम् ।। छन्ना किलोच्चैः स्तनशैलमूले छाया तु लोमावलिकानुकूले ॥४९॥
वदामीति । हास्येन सहितं सहास्यं मन्दस्मितयुक्तमास्यं मुखमेव शुचिरश्मिवन्तं चन्द्रमसं, तत एव सौधनिधीश्वरं निधिषु प्रशस्तेषु स्वामिनं निधीश्वरं, सौधस्य रङ्गप्रासादस्य निधीश्वरं, पक्षे सुधाया इमं सौधममृतमयं निधीश्वरमहं वदामि, यतः किलानुकूले सहजसहायके, उच्चस्तन एव समुन्नतकुच एव वातिशयोन्नतश्चासौ शैलस्तस्य मूले तलभागे प्रशंसायां तनप्रत्ययः । तु पुनश्छाया तमोरूपा सा छन्ना प्रलुप्ता भवति लोमावली जायते ॥ ४९॥ कुशेशयं वेद्मि निशासु मौनं दधानमेकं सुतरामघोनम् । मुखस्य यत्साम्यमवाप्तुमस्या विशुद्धदृष्टेः कुरुते तपस्याम् ॥ ५० ॥ कुशेशयमिति । विशुद्धवृष्टेः शोभननेत्राया अस्या मुखस्य यत्साम्यं तुल्यत्वं तदवाप्तुं
अन्वय : सुदृशः गानं कवित्वं मृदुता सत्यं च एतत् चतुष्कम् अधिकृत्य अथ (तेषाम्) आगःप्रहाणये किं नु गले लेखात्रितयेन विभागः कृतः ।
अर्थ : सुलोचनाके गान, कवित्व, मृदुता और सत्य-इन चार गुणोंको . ( सुलोचना के गले में निवास करनेके लिए ) अधिकार देकर और फिर उनके पारस्परिक अपराध एवं तज्जन्य कलहको दूर करनेके लिए ही क्या गले में तीन रेखाओंके द्वारा विभाजन किया गया है, जिससे उन्हें एकत्र निवासमें सुविधा हो ।। ४८ ॥
- अन्वय : अथो सहासम् आस्यं (अहं) शुचिरश्मिवन्तं सौधनिधीश्वरं वदामि (यतः) किल अनुकूले उच्चस्तनशैलमूले छाया छन्ना लोभावलिका (जाता)।
अर्थ : और मन्दहासयुक्त, सुलोचनाके मुखको मैं चन्द्रमा एवं सौधनिधिश्वर कहता हूँ; क्योंकि सहज सहायक समुन्नत स्तनरूपी पर्वतके मूलभागमें जो छाया ( अन्धकार ) रही वह लुप्त हो गयी और उसके स्थानमें रोमराजि उत्पन्न हो गयी है ।। ४९ ॥
अन्वय : विशुद्धदृष्टेः अस्याः मुखस्य यत् साम्यं (तत्) अवाप्तुं कुशेशयं निशाः मौनं दधानम् एकं तपस्यां कुरुते (अतः) सुतराम् अघोनं वेद्मि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org