________________
३२
जयोदय -महाकाव्यम्
[ ५४-५५
त्पलं नीलकमलं विधाय तदप्यतुल्यमसमानं मूल्यं यस्य तदिति मत्त्वेति शेषः, तदाशु प कदमे निधाय निक्षिप्य तस्मिन् रजांसि परागरूपाः धूलीश्चिक्षेपेति शङ्क, इति उत्प्रेक्षालङ्कारः ॥ ५३ ॥
तपस्यताऽनेन पयस्यनूनममुष्य नाप्ता मुखताऽपि यूनः । किमन्त्यजस्यादिमवर्णतासौ मौनं तु यस्य द्विजराजराशौ ||५४ ||
तपस्यति । पयसि जले अनूनमनल्पं यथा स्यात्तथा तपस्यता, अब्जेन कमलेन, अमुष्य यूनो जयकुमारस्य मुखता मुखरूपता न लेभे । तदेव समर्थयति अन्ते भवतीत्यन्त्यो जकारो यस्य अब्जस्य, तस्थादौ प्रारम्भे मवर्णो यस्य तस्य भाव आदिमवर्णता किं स्यात् न स्यात् मुखभाव इत्यर्थः । अथवा अन्त्यजस्य चाण्डालस्य अब्जस्य आदिमवर्णता ब्राह्मणवर्णता किमिव स्यात् ? यस्य द्विजराजस्य चन्द्रस्य राशौ रात्रौ मौनं मुद्रणम् । यद्वा द्विजानां द्विजन्मनां राजराशौ प्रधानसमूहे मौनं मूकभावः, नु वितर्क ॥ ५४ ॥
भालेन सार्धं लसता सदास्य मेतस्य तस्यैव समेत्य दास्यम् । सिन्धोः शिशुः पश्यतु पूर्णिमास्यं चन्द्रोऽधिगन्तुं मुहुरेव भाष्यम् ॥ ५५ ॥
भालेनेति । एतस्य जयकुमारस्य आस्यं मुखं भां लाति गृह्णाति तेन भास्वरेण, अत एव लसता शोभमानेन ललाटाख्येन सार्धं समन्वितम् । यद्वा अर्धेन खण्डेन सहितं सार्धं
इसकी आँखों के समान न मानकर उसे कीचड़ में पटक दिया और उसपर धूलकी मुट्ठी डाल दी, ऐसा मैं मानता हूँ ।। ५३ ।।
अन्वय : पयसि अनूनं तपस्यता अब्जेन अपि अमुष्य यूनः मुखता न आता । अन्त्यजस्य आदिमवर्णता असौ किम् स्यात्, यस्य नु द्विजराजराशौ मौनम् ।
अर्थ : जल में रहकर निरन्तर तपस्या करते हुए भी अब्ज ( कमल) उस युवक राजा जयकुमारकी मुखरूपताको नहीं पा सका, सो ठीक ही है । कारण जिसके अन्त में 'ज' कार है, ऐसे अन्त्यजको आदिम-वर्णता अर्थात् प्रारम्भिक 'म' कारतारूप ब्राह्मण वर्णता कैसे प्राप्त हो सकती है जिस अन्त्यज अब्जके लिए द्विजराजकी राशि में अर्थात् संस्कार जन्मवाले लोगोंके समूहरूप चन्द्रमंडलके समय मौन बताया गया है ।। ५४ ।
अन्वय : लसता भालेन सार्धम् एतस्य आस्यं सत्, सिन्धोः शिशुः एष चन्द्रः भाष्यम् अधिगन्तुं तस्य एव दास्यं समेत्य पूर्णिमास्यं पश्यतु ।
अर्थ : चमकनेवाले ललाट के साथ इस राजाका मुख डेढ चन्द्रमाके समान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org