________________
३६-३७] एकादशः सर्गः
५२५ अस्या नर्म प्रसादनं ददातीति तस्या नर्मवाया एव नया एतो स्तनच्छलेनान्तरीपो द्वीपो विभातः शोभते । श्लेषरूपक-उत्प्रेक्षालङ्काराणां संसृष्टिः ॥ ३५ ॥
यद्वाऽवशिष्टं तदिहास्ति निष्ठं स्फुटस्तनाभोगमिषादभीष्टम् । संगृह्य सारं जगतोऽङ्गसृष्टावस्या यदारम्भपरस्तु स्रष्टा ॥ ३६ ।।
यद्वेति । यति कल्पनान्तरे । अस्या सुलोचनाया अङ्गसृष्टौ तनुनिर्माणे, आरम्भपरः स्रष्टा विधाता तु पुनर्जगतः संसाराद् यत्किञ्चिदभीष्टं सारं तत्त्वांशं संगृह्याऽऽदाय एनामरचयदिति शेषः । पुनर्यदवशिष्टं निर्माणादुद्धरितं तत् स्फुटस्य प्रकटीभूतस्य स्तनाभोगस्य मिषाविह संरक्षितमस्ति ॥ ३६ ॥
अस्याः स्तनस्पर्धितया.घटस्य शिल्पादिवाल्पादिह पश्य तस्य । स चक्रभर्ता मणिकादिभारकर्तापि देवाऽकथि कुम्भकारः ॥ ३७॥
अस्या इति । हे देव, स्वामिन्, पश्य, तावविह लोके मणिकादीनां भारस्य कर्ता स प्रसिद्धश्चक्रस्य भर्ता कुलालोऽपि खल्वस्याः सुदृश. स्तनस्य स्पर्धितया कुचाभोगस्य तुल्यतयैव तावत्तस्य घटस्य शिल्पान्निर्माणावल्पावप्यन्येषां कुशूलादिवस्तूनामपेक्षया न्यूनावपि कुम्भकारोऽकथि ॥ ३७॥
व्यवधान हट गया है तथा जो प्रसन्नता प्रदान करती (स्वयं नर्मदा नदी) है, उसके स्तनों के बहाने इस समय ये दो टापू सुशोभित हो रहे हैं ।। ३५ ॥
अन्वय : यद्वा अस्याः अङ्गसृष्टौ आरम्भपरः तु स्रष्टा जगतः अभीष्टं सारं संगृह्य (एनाम् अरचयत्) यत् अवशिष्टं तत् स्फुटस्तनाभोगभिषात् इह निष्ठम् अस्ति ।
अर्थ : अथवा इस सुलोचनाकी कायाकी रचनाके प्रारम्भ करने में विधाता तत्पर हुआ तो उसने सारे संसारसे सारभूत अंशका संग्रह करके उसे सम्पन्न किया, तत्पश्चात् जो कुछ बचा रहा उसे उभारको प्राप्त स्तनोंके विस्तारके बहाने यहींपर सुरक्षित कर दिया । ३६ ॥
अन्वय : हे देव ! पश्य इह स चक्रभर्ता मणिकादिभारकर्ता अपि अस्याः स्तनस्पद्धितया घटस्य अल्पात् अपि शिल्यात् इव कुम्भकारः अकथि ।
अर्थ : हे स्वामिन् ! देखिये, यहाँ वह चक्रका मालिक, मणिका अर्थात् कलश आदि अनेक पात्रों (बरतनों) का निर्माता होनेके बावजूद मानों इस सुलोचनाके स्तनोंकी स्पर्धामें घड़ेके शिल्पसे, जो अन्य पात्रोंके निर्माणकी तुलनामें मामूली है, कुम्भकार (कुम्हार) कहा जाने लगा ॥ ३७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org