SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ १५-१७ ] एकादशः सर्गः हैमं तुलाकोटियुगं च कस्मान्ममाप्यमूल्यस्य निबद्धमस्मात् । रुषारुणं श्रीचरणारविन्दद्वयं सुदत्या विभवन्तु विन्दत् ॥ १५ ॥ ५१५ हैममिति । विभवं कान्तिमत्वं विन्वल्लभमानं सुवत्याः शोभनरदायाः सुलोचनायाः श्रीयुक्तं चरणारविन्दयोर्द्वयं रुषा कोपेन अरुणं शोणमभवदिति शेषः । कस्मात्कारणादित्युत्प्रेक्ष्यते - अमूल्यस्यातिमनोहरस्य मम हेम्न इदं हेमं स्वर्णमयं तुलाकोटचोर्युगं मञ्जीरयुगलं कस्मात्कारणान्निबद्धमितीष्यं येति । अस्मादेव हेतोस्तदरुणमभूवित्युत्प्रेक्षा रुङ्कारः ॥ १५ ॥ शिरस्सु धत्तौ सुषमाभिमानजुषां रुषा सम्वपुषा घिया नः । तत्रत्यसिन्दूरकलासमस्यावशेन पादावरुणौ स्विदस्याः ।। १६ ।। शिरस्स्विति । स्विदथवा, अस्याः पादौ यतः सुषमाभिमानजुषां शोभाविषयकगवंवतीनां शिरस्सु रुषा क्रोधेन घत्तौ नोऽस्माकं विचारेण ( धिया ) ततस्तत्रभवा सत्रत्या या सिन्दूरकला तस्या: समस्या संग्रहणं तद्वेशेनैवारुणी जातौ कोपस्य सिन्दूरस्य रागपरिणामकारणत्वात् ॥ १६ ॥ विशुद्धपाणजयतः प्रयाणे श्रीराजहंसान्नलतुल्यपाणेः । पादाब्जराजौ नहि चित्रमेतत्सेव्यावहो भूमिभृतोऽपि मे तत् ।। १७ ।। अन्वय : सुदत्याः विभवं विन्दत् श्रीचरणारविन्दद्वयं तु अमूल्यस्य अपि मम मं तुला कोटियुगं च कस्मात् निबद्धम् अस्मात् रुषा अरुणम् (अभवत् ) । अर्थ : सुन्दर दन्तावलीसे विभूषित सुलोचनाका कान्तिसम्पन्न अत्यन्त सुन्दर चरण-युगल मानो (यह सोचकर ) कोपसे लाल हो गया कि 'मैं स्वयं ही मूल्य अति सुन्दर हूँ तो मुझे यह स्वर्णरचित पायजेबकी जोड़ी क्यों बाँधीपहनायी गयी है ?' ॥ १५ ॥ अन्वय : स्वित् नः धिया अस्याः पादौ संवपुषा रुषा सुषमाभिमानजुषां शिरस्सु धत्तौ तवत्यसिन्दूरकलासमस्यावशेन अरुणौ जातौ । अर्थ : अथवा मेरे विचारसे इस सुलोचनाके पैर मूर्तिमान क्रोधके द्वारा, सौन्दर्यका गर्व करने वाली नायिकाओं के मस्तकों पर रखे गये, फलतः उनका सिन्दूर (जो उनकी माँगों में भरा था) लग जानेसे लाल हो गये हैं ।। १६॥ अन्वय : नलतुल्यपाणेः पादाब्जराजो विशुद्धपाष्र्णी प्रयाणे श्रीराजहंसान् जयतः एतत् चित्रं न भूमिभृतः अपि मे सेव्यौ तत् अहो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy