________________
४-५]
एकादशः सर्गः विलोकनेनेति । सा जयस्य दृष्टिः सुलोचनाया आस्यमेव निशीथनेता चन्द्रमास्तस्यावलोकनेन कृत्वा सद्रसम्य शृङ्गारस्य सागरे समुल्वणे वृद्धि गते सति, पुनरनन्तरं तस्या उच्चैःस्तनं पीनतमं पयोधरमेव पर्वतं, समुन्नतार्थे तनागमो वा, तमारुरोहेति, पदं वदामीति पदंवदोऽहं भवामि । चन्द्रोदये समुद्रवर्द्धनं स्वाभाविकम्, जलोद्वेलनायान्तु पुनरुच्चैः स्थानारोहणं जातिः । रूपकालङ्कारः ॥ ३॥ कालागुरोर्लेपनपङ्किलत्वाद् दृष्टिः स्खलन्तीव च स स्पहत्वात् । उरोजसम्भूतिमगान्मुहुर्वा तनुं चरिष्णुः सदृशोऽप्यपूर्वाम् ॥ ४ ॥
कालागुरोरिति । सुदृशः सुलोचनाया अपूर्वामद्वितीयां तनु देहं चरिष्णुः सम्भोक्तुं दिदृक्षुः सा जयकुमारस्य दृष्टिस्तस्या उरोरुजावन्यत्र गन्तुं यत्नवतीव च तत्र कालागुरोर्लेपनेन कृत्वा पङ्किलत्वात्कदमबाहुल्यात् स्खलन्ति सतीव किल सस्पृहत्वाद्ध तोमुह मुहुरनेकवारमुरोजसम्भूतिमेवागात् । गमनशीलो जनः कर्दमे स्खलित्वा पूर्वमेव स्थानं यथाsप्नोति तथा सापि मुहुरतृप्तत्वात्कुचस्थानमेवागात् । उत्प्रेक्षालङ्कारः ॥ ४॥ पुनश्च निःश्रेणिमिवैणशावदृशोऽवलम्ब्य त्रिवलिं यथावत् । सतृष्णया नाभिसरस्य वापि किलावतारः शनकैस्तयापि ॥ ५॥
पुनरित्यादि । पुनरनन्तरं तृष्णया सहिता तया सतृष्णया पिपासितया जयकुमारदृशा, एणशावस्य दृशाविव दृशौ यस्यास्तस्यास्त्रिवलिं वलित्रयं निःश्रेणिमिवावतरणपद्धति
__ अन्वय : आस्यनिशीथनेतुः विलोकनेन सद्रससागरे समुल्वणे तु सा पुनः द्रुतम् उच्चैस्तनं पर्वतम् आरुरोह -इति पदं वदः अहं (भवामि)।
अर्थ : सुलोचनाके मुख-चन्द्रके अवलोकनसे ज्योंही शृङ्गार-रसके सागरमें ज्वार आया त्योंही वह (जयकुमारको दृष्टि) शीघ्र ही समुन्नत स्तनरूपी पर्वतपर जा पहुँची-ऐसा मैं कहता हूँ ॥३॥ .. अन्वय : सुदृशः अपूर्वा तनुं चरिष्णुः अपि कालागुरोः लेपनपङ्किलत्वात् स्खलन्ती इव च दृष्टिः सस्पृहत्वात् मुहुः उरोजसम्भूतिम् अगात् । ___ अर्थ : जयकुमारकी दृष्टि सुलोचनाके अपूर्व-अत्यन्त सुन्दर शरीरपर सर्वत्र संचार करना चाह रही थी, परन्तु चन्दनके लेपने उसपर फिसलन उत्पन्न कर दी-इस कारणसे मानो लड़खड़ाती-सी वह (दृष्टि) स्पृहावश पुनः स्तनों पर पहुँच गयी ।। ४ ॥
अन्वय : पुनः च एणशावदृशः त्रिवलिं निःश्रेणिम् इव यथावत् अवलम्ब्य सतृष्णया किल तया शनैः नाभिसरसि अवतारः अवापि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org