________________
एकादशः सर्गः रूपामृतस्रोतस एव कुल्यामिमामतुल्यामनुबन्धमूल्याम् । लब्ध्वाक्षिमीनद्वितयी नपस्य सलालसा खेलति सा स्म तस्य ॥ १ ॥ ___ रूपेत्यादि । नृपस्य जयकुमारस्याक्षिणी एव मीनौ तयोद्वितयो युग्मं, रूपमेवामृतं जलं पीयूषं वा तस्य स्रोतसः प्रवाहस्य कुल्यां कृत्रिमा नदी, यद्वा, कुले साता कुल्या सहोदरी ताम्, न विद्यते तुला यस्याः सा तामनन्यसदृशीम्, तथा, अनुबन्धः प्रणयस्तटपरिणामश्च मूल्यं यस्याः सा ताम्, इमां सुलोचना लब्ध्वा लालसया सहिता सलालसा सोत्कण्ठा खेलति स्म । श्लेषरूपकयोः सङ्करः ॥ १॥
प्रेम्णाऽऽस्यपीयूषमयूखवन्तं समुज्ज्वलं कौमुदमेधयन्तम् । पुरा तु राजीवदृशः किलोरीचकार राज्ञो दृगियं चकोरी ॥२॥
प्रेम्णेत्यादि । राज्ञो जयस्य वृदृिष्टिरेव चकोरी खजनिका किल सा पुरा तु प्रथम तु, प्रेम्णा-प्रोत्या, राजीव इव दृशौ यस्याः सा तस्याः सुलोचनाया आस्यं मुखमेव पीयूषमयूखश्चन्द्रोऽस्यास्तीति तम्, समुज्ज्वलं सम्यक् प्रकाशयुक्तं को पृथिव्यां मुदं हर्ष, पक्षे कुमुदानां समूहं कौमुदमेधयन्तं वर्धयन्तमुरोचकाराङ्गीकृतवती। श्लेषरूपकयोः सङ्करः॥२॥
विलोकनेनास्यनिशीथनेतुः समुल्वणे सद्रससागरे तु । द्रुतं पुनः सेति पदंवदोऽहमुच्चैःस्तनं पर्वतमारुरोह ॥ ३ ॥
अन्वय : तस्य नृपस्य सा अक्षिमीनद्वितयी रूपामृतस्रोतसः एव कुल्याम् अतुल्याम् अनुबन्धमूल्याम् इमां लब्ध्वा सलालसा (सती) खेलति स्म ।
अर्थ : जयकुमारके लोचनरूप मीनयुगल अनुपम रूपामृतवाहिनी प्रेमानुबन्धिनी सुलोचनाको पाकर उसमें उत्कण्ठापूर्वक क्रीडा करने लगा ॥१॥
अन्वय : राज्ञः इयं दृक् चकोरी पुरा तु प्रेम्णा राजीवदृशः समुज्ज्वलं कौमुदम् एधयन्तम् आस्यपीयूषमयूखवन्तं किल उरीचकार । ___अर्थ : जयकुमारकी यह दृष्टिरूपी चकोरी सबसे पहले सुलोचनाके मुखरूपी चन्द्रमापर गयी; क्योंकि (दोनों-मुख और चन्द्रमामें एक विशेषता है कि) चन्द्रमा कुमुदवृन्दको प्रसन्न (विकसित) करता है और सुलोचनाका मुख पृथ्वीपर प्रसन्नताका प्रसार करता है ॥ २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org