________________
जयोदय-महाकाव्यम्
[ ५०-५१ वक्ष इति । अक्षोभोऽनुद्विग्नत्वमेव गुणस्तस्यैकोऽद्वितीयो बन्धुस्तस्य कथमप्यनुद्विजतः अत एव सुपुण्यसिन्धोः सदाचारसमुद्रस्य वक्ष उरःस्थलं तस्य पदार्थ लक्षभ्य सम स्थानमस्तु । लक्ष्मीः समुद्रसम्भवा ख्याता, तत्र निवसतीति वा ख्यातिः। स च पुण्यसिन्ध स्तस्मात् लक्ष्मीनिवासार्थ वक्षोरूपस्थानं तत्र च तस्या आरामः शर्मतया ललाम मनोहरं मञ्चं पर्यङ्कञ्च स्यात्, तत्तु तदन्तो हृदयान्तर्गतं स्फुरच्छोभनं यदम्बुजं हृदयकमलं तदेवेति ॥ ४९ ॥ स्वर्गात् सुरद्रोः सलिलान्नलस्य लताप्रतानस्य भुवोऽपकृष्य । सारं किलालकृत एष हस्तो रेखात्रयेणेत्यथवा प्रशस्तः ॥५०॥ ___ स्वर्गादिति । स्वर्गाद्दिवः सुरद्रोः कल्पद्रुमस्य, सलिलात् पातालसम्भवात् जलानलस्य कमलस्य, भुवः पृथ्वीतलात् लतानां प्रतानं विस्तरः पल्लवरूपस्तस्येति त्रितयस्य सारं श्रेष्ठभागमपकृष्य गृहीत्वा, किल उत्प्रेक्षायाम् । एष हस्तोऽलङ कृतः । अथवा अरं शीघ्र कृतः, र-लयोरभेदात् । इत्यस्माद्धेतो रेखात्रयेण प्रशस्तः स्तुतो भवति स्म ॥ ५० ॥
यतश्च पद्मोदयसंविधानः सदा सुलेखान्वयसेव्यमानः । श्रीपञ्चशाखः सुमनःसमूहेश्वरस्य कल्पद्रुरिवास्महे ॥५१॥ यत इति । अस्मदूहेऽस्माकं विचारे सुमनसां सज्जनानां देवानाञ्च समूहस्तस्येश्वरः
अर्थ : कभी भी क्षुब्ध न होनेवाले और उत्तम पुण्यके समुद्र जयकुमारका वक्षःस्थल तो पद्मा ( लक्ष्मी ) के लिए बनाया निवासस्थान था। उसके मध्य स्फुरित होता हुआ हृदयरूपी कमल उस लक्ष्मीके विश्राम करनेका सुन्दर मंच ही था ॥ ४९ ।।
अन्वय : स्वर्गात् सुरद्रोः सलिलात् नलस्य अथवा भुवो लताप्रतानस्य सारं किल अपकृष्य एष हस्तः अलङ्कृतः इति हस्तः रेखात्रयेण प्रशस्तः । ____ अर्थ : स्वर्गसे तो कल्पवृक्षका सार, जलसे कमलका सार और पृथ्वीसे फलोंका सार ग्रहण करके ही इस राजाका हाथ बनाया गया है, इस बातको स्पष्ट करनेके लिए ही उस राजाके हाथमें तीन प्रसिद्ध रेखाएँ थीं॥५०॥ __ अन्वय : सुमनःसमूहेश्वरस्य श्रीपञ्चशाखः इह अस्मदूहे कल्पद्रुः, यतः सः पद्मोदयसंविधानः सदा सुलेखान्वयसेव्यमानः अस्ति ।
अर्थ : सज्जनोंके अधिपति उस राजाका जो पाँच अंगुलियोंवाला हाथ था
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org