SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ ५०४ जयोदय-महाकाव्यम् [११३-११४ लेव प्रावृषा वृष्टयेव वयस्यया सख्या समं केकितया वह्नो निरततया, पक्ष मयूररूपेणापन्ना प्राप्ता जन्या आनन्दसत्ता येन स चासो मनुः प्रधानो यस्य तेन चातकेनेव वरेण प्रतीक्षिता निर्ययो निर्जगाम ॥ ११२ ॥ कुसुमगुणितदाम निर्मलं सा मधुकररावनिपूरितं सदंसा । गुणमिव धनुषः स्मरस्य हस्त कलितं संदधती तदा प्रशस्तम् ॥ ११३ । कुसुमेति । सा सवंसा शोभनस्कन्धवती सुलोचना मधुकराणामलीनां रावः शम्दैनिपूरितं निर्मलं सुन्दरं कुसुमैगुणितं प्रारब्धं यद्वाम माल्यं तवा तस्मिन् काले प्रशस्तं प्रशंसायोग्यं स्मरस्य कामदेवस्य धनुषो गुणं ज्यांशमिव हस्ते स्वकरे कलितं स्वीकृतं संदधती धृतवती सती ॥ ११३ ॥ तरलायतवर्तिरागता साऽभवदत्रस्मरदीपिका स्वभासा। अभिभूततमाः समा जनानां किमिव स्नेहमिति स्वयं दधाना ॥ ११४ ।। तरलेति । अत्र मण्डपदेशे तरला चञ्चला पायता च वतिर्नेत्रवृत्तिः पो दशा यस्याः सा, वतिर्दशालोचनयोरित्यादिकोषात् । ततः स्वभासा देहदीप्त्याऽभिभूतं परास्तं तमो यया साभिभूततमा इत्यत एव समा शोभावती लक्ष्मी की वा जनानां दर्शकलोकानां, स्वयमपि किमिव स्नेहं प्रेम तेलादि च वधानाङ्गोकुर्वाणा स्मरस्य कामस्य दीपिकोद्दीपनक: साऽभवत् ॥ ११४ ॥ अर्थ : वर्षाकालके साथ घन-घटाको तरह सखीके साथ मुस्कराती हुई सुलोचना आयो तथा चिर पिपासित चातकके समान उसे वर जयकुमारने देखा ।। ११२ ॥ अन्वय : सदंसा सा मधुकररावनिपूरितम् निर्मलम् कुसुमगुणितदाम तदा प्रशस्तम् स्मरस्य धनुषः गुणम् इव हस्तकलितम् सन्दधती । ___अर्थ : सुन्दर कन्धे वाली सुलोचना भ्रमरोंके शब्दोंसे पूरित व स्वच्छ फूलोंकी मालाको कामदेवके धनुषको प्रत्यञ्चाकी तरह हाथ में लेकर सुशोभित हुई ।। ११३ ॥ अन्वय : अत्र तरलायतनेत्रवर्तिः आगता स्वभासा अभिभूततमा (अतएव) समा Jain जनानाम् स्वयम् किमिव स्नेहम् दधाना स्मरदीपिका अभवत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy