________________
५०२ जयोदय-महाकाव्यम्
[ १०८-१०९ उद्धृतेति । कदलीव लसन्ती शोभमाना तावदूर्यस्याः सा तया रम्भोरुकया कयाचिस्त्रिया सम्प्रति पाणिनैव केवलेन हस्तेनैव दूर्वा नोद्धृता, किन्त्वपितु मङ्गलस्य पाणिग्रहणस्य या मुत्तयाऽञ्चो रोमाञ्चस्तस्य पदेन व्याजेन गात्रतोऽपि शरीरेणाऽप्यखिलेनोद्धृता, इतीयं चिबुद्धि!ऽस्माकं हृदये वर्तत इति यावत् ॥ १०७ ॥.
शार्करं तदपि काचिदिहाली प्रोद्दधार मधुराघरपाली । पश्यताघरमिदं न मदीयमौष्ठमित्थमधुनोक्तवतीयम् ॥ १०८ ।। शाकरमिति । मधुरा मनोहराऽधरपालो रदच्छवकला यस्याः सा काचिदाली सखीह प्रसङ्ग शर्कराया इवं शार्करं तत् पात्र प्रोद्धार यत्, हे लोका यूयं पश्यताधुनेदमेव तावधरं धरावजितमस्मद्धस्ते वर्तमानं तथैवाधरं गुणहीनं न तु मदीयमोष्ठमधरं पश्यतेमियदुक्तवतीवेत्युत्प्रेक्ष्येत ॥१०८॥
सञ्चकार ममिघोऽप्यवला का संगुणौधगणनाय शलाकाः । ताः सुयज्ञसदसो ह्यविलम्बादगुलीरिव निजा बहुलम्बा ॥ १०९ ॥
संचकारेति । काप्यबलाविलम्बाद्ध तोनिजाः । स्वकीया अडगुलीरिव बहुलम्बाः सुदीर्घास्ताः समिधो यज्ञार्थ चन्दनादीनां काष्ठखण्डाः सुयज्ञसदसः सत्यार्थयज्ञशालाया यः संगुणोघः पापध्वंसनलक्षणस्तस्य गणनाय परिसंख्यानाय शलाका हि किल सबकार ॥ १०९॥
अन्वय : कदलीलसदूर्वा सम्प्रति पाणिनंव दूर्वाः न उद्धृताः किन्तु मङ्गलमुदञ्चपदेन गात्रतः अपि ( उद्धृताः ) इयम् चिद् नः हृदये वर्तते । ___अर्थ : कदलीस्तम्भके सदृश उरुवाली किसी स्त्रीने अपने हाथसे ही दूब (घास ) नहीं उठायो, प्रत्युत विवाहके हर्षसे उत्पन्न रोमाञ्च होनेसे ही उठायी गयी, ऐसा मेरा अपना विचार है ।। १०७ ।।
अन्वय : मधुराधरपाली काचित् आली इह शार्करम् प्रोद्दधार ( इति ) पश्यत्, अधुना इदम् अधरम्, मदीयम् ओष्ठम् न इति उक्तवती। ___ अर्थ : मधुर ओष्ठवालो किसी स्त्रीने शक्करके पात्रको उठाया और मानो यह कहा कि “यह शक्कर पात्र ही गुणहीन है, मेरा अधरोष्ठ नहीं" ॥ १०८॥
अन्वय : कापि अबला अविलम्बात् ताः निजाः अङ्गलीः इव बहुलम्बाः समिधः सुयज्ञसदसः संगुणौघगणनाय शलाकाः हि सञ्चकार । ___ अर्थ : किसी स्त्रीने तत्काल ही अपनी अंगुलीकी तरह, बहुत लम्बी चन्दनादिकी लड़कियोंको सुन्दर यज्ञभवनके पापध्वसस्वरूप गुणोंको गिननेके लिए ही मानो शलाकाएं बनायी हैं ॥ १०९ ।।
Jain Educaton International
For Private & Personal Use Only
www.jainelibrary.org