________________
५००
जयोदय-महाकाव्यम्
।१०२-१०४ सम्पूततामतति तां वरराजपादैस्तस्मिन् सदम्बरवितान इतः प्रसादैः । तत्कालकार्यपरदारतरङ्गचारः
शुद्धान्तसिन्धुरभवत्समुदीर्णसारः ।। १०२ ॥ सम्पूततामिति । वरराजस्य श्रीजयकुमारस्य पादैश्चरणैर्हेतुभूतैः संपूतता पवित्रभावमतति गच्छति तस्मिन् समीचीनस्याम्बरस्य वस्त्रस्य विताने मण्डपदेशे तावदितोऽनन्तरं प्रसादैः प्रसत्तिभिस्तत्काले यानि कानिचित्कार्याणि तेषु परायणा ये दाराः स्त्रियस्तषां त एव वा तरङ्गास्तरलरूपत्वात्तेषां चारः प्रचारो यत्र सः, समुदीर्ण उद्वेलभावं गतः सारोऽन्तर्भागो यस्य स शुद्धान्तोऽन्तःपुरमेव सिन्धुः समुद्रोऽभवत्, अन्तःपुराङ्गनासमूहे कार्यत्वरताभूवित्याशयः ॥ १०२ ॥ काचन स्मितसमन्वितवक्त्रतुल्यतामनुभवत् स्वयमत्र । लाजभाजनमदोऽप्युपयोक्त्री सम्बभौ तरुणिमोदयभोक्त्री। १०३ ॥
काचनेति । काचन स्त्री, अत्र प्रसङ्ग स्मितेनेषद्धास्येन समन्वितं यद्वक्त्रं मुखं तस्य तुल्यतामनुभवत् स्वयमनायासेनैव, अनुभवदङ्गोकुर्वववोऽनुकूलं लाजानां भ्रष्टधान्यानां भाजनं पात्रमुपयोक्त्री या तरुणिम्नो यौवनस्योदयस्तस्य भोक्त्री सम्बभौ ॥ १०३ ॥ शातकुम्भकृतकुम्भमनल्पदुग्धमुग्धकमुरोरुहकल्पम् । जानती तमपि चाञ्चलकेनाच्छादयत् स्वमुपपद्य निरेनाः ॥१०४।।
अन्वय : वरराजपादः सम्पूतताम् अतति तस्मिन् सदम्बरविताने इतः प्रसादैः तत्कालकार्यपरदारतरङ गचारः समुदीर्णसारः शुद्धान्तसिन्धुः अभवत् ।
अर्थ : श्रीजयकुमारके चरणोंसे पवित्रताको प्राप्त, सुन्दरवस्त्रों वाले मण्डपप्रान्तके हो जाने पर, इधर प्रसादोंसे तत्कालकार्य में तल्लीन स्त्री रूपिणी तरङ्गोंका प्रसार, भीतरी भागमें उद्वेल्लित हुआ अन्तःपुर ही समुद्र जैसा प्रतीत होता था ॥ १०२॥
अन्वय : काचन अत्र स्मितसमन्वितवक्त्रतुल्यताम् स्वयम् अनुभवत् अदः लाजभाजनम् उपयोक्त्री तरुणिमोढयभोक्त्री सम्बभौ । ___ अर्थ : कोई स्त्री इस प्रसङ्घमें स्मितयुक्त मुखकी बराबरी स्वयं ही करती हुई लाजाके पात्रका उपयोग करनेवाली यौवनारम्भका उपभोग करनेवाली तरुणिमाकी तरह सुशोभित हुई ।। १०३ ॥
वन्वय : निरेनाः शातकुम्भकृतकुम्भम् अनल्पदुग्धमोहकम् स्वयम् उरोरुहकल्पम् जानती तम् अपि उपपद्य अञ्चलकेन आच्छादयन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org