SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ १०१ ] दशमः सर्गः ४९९ हे शारद इति । हे शारदे, सरस्वति, अधुना वयं तव संस्तवनं स्तुतिप्रस्तावं वदामः कुर्म इत्यर्थः । तत्र तावत्सज्जं सर्वलक्षणसम्पन्नमङ्ग शरीरं लातीति तस्मै सज्जाङ्गलाय, सुलक्षणशरीरभृते जनाय, अथ च सत्प्रशस्तं जाङ्गलं नाम निर्जलस्थानं यस्य तस्मै सज्जाङ्गलाय जनाय तव वारि नाम जलमित्यर्थंकरं नाम वदामः । जगतां लोकानां मध्ये वारि नाम सरस्वत्याः प्रसिद्धमेव । एकस्मिन्नन्ते कस्मिश्चिदपि स्थाने निष्ठा स्थितिर्नास्ति यस्य तन्नेकान्तनिष्ठं तादृशं वचनं यस्य तस्मै नैकान्तनिष्ठवचनाय स्थानभ्रष्टाय त्वं सम्यक्पदं स्थानं यस्यामितीवृशी, यद्वा, नेकान्ते स्याद्वादाख्ये वर्त्मनि निष्ठा श्रद्धा यस्यैतादृशं वचनं यस्य तस्मै सम्यक् पदं शब्दनियमनं यत्र सा सम्पदा किञ्च सम्पत्तिकर्त्री चासि सम्भवसि । अत एव पुनर्नोऽस्माकं धीर्बुद्धिस्ते पदयोश्चरणयोरन्तस्य प्रान्तभागस्य दासी सेविका भवति ॥ १०० ॥ पूज्याङ्घ्रिभूमिति संस्तुवता जयेन श्रीलोचनाप्रणयपुण्यपिपासितेन । पूतोत्सवोत्थितसुघारसमेव पातुं बद्धोऽञ्जलिश्च शुचिचित्तभृतां तदा तु ॥ १०१ ॥ पूज्याङ्घ्रीति । इत्युक्तप्रकारेण पूज्यानां श्रीमहंत परमेश्वरादीनामधिभूमि श्रीचरणस्थित संस्तुवता प्रार्थयता, शुचिचित्तभूता पवित्रहृदयघृता, श्रीलोचनाया अकम्पन - सुताया यत्प्रणयपुण्यं पाणिग्रहणलक्षणं तस्य पिपासितेनाभिलाषुकेन जयेन वरराजेन तवा तु तस्मिन् समये प्रतात्पवित्रादुत्सवावुत्थितं सआतं सुषारसमानन्ददायकं पातुमेव किल। अलिः करयुगसंयोगो बद्धः समुपरचितोऽभूत् ॥ १०१ ॥ ( वदामः ) जगताम् नैकान्तनिष्ठवचनाय तु सम्पदा असि, पुनः नः धीः ते पदान्तदासी भवति । अर्थ. हे शारदे ! मैं शीघ्र ही तुम्हारी स्तुति करता हूँ । सुन्दर लक्षणोंसे युक्त शरीर धारण करने वाले जन के लिए तुम्हारा नाम जल ऐसा कहता हूँ । अनेकान्त वचनवादियोंको तुम सम्पदा प्रदान करने वालो हो फिर हमारी बुद्धि तुम्हारे चरणों की दासी हो रही है ॥ १०० ॥ अन्वय : इति पूज्याङ्घ्रिभूमिम् संस्तुवता शुचिचित्तभृता श्रीलोचनाप्रणयपुण्यपि - पासितेन तदा तु पूतोत्सवोत्थितसुधारसम् एव पातुम् अञ्जलिः बद्धः । अर्थ : इस प्रकार पूज्योंके श्रीचरणकी स्तुति करने वाले तथा पवित्र हृदय वाले, सुलोचनाके प्रणयपिपासु जयकुमारने उस समय पवित्र उत्सवसे उत्थित अमृतरसको मानो पीनेके ही लिए अञ्जलि बाँध ली ॥ १०१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy