SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ ९७-९८ ] दशमः सर्गः ४९७ हे छिन्नमोहेति । छिन्नः प्रणष्टो मोहो मुग्धभावो येषां ते तेषां मोदनं प्रहर्षणं येन स तत्सम्बोधने, तुभ्यं मोदनाय प्रसत्तिकत्रे नमोऽस्तु । अथवा छिन्नमोहजनमोद, देवशुद्धिपरिणामेन नः पूज्याय तुभ्यं नमः । न शमनमशमनं रोषस्तस्य शंसा प्रख्यापना यत्र तस्य मनसोऽदनं भक्षणं प्रणाशनं येन तस्मै तुभ्यं नमः। निवृत्या मुक्तिलक्ष्म्याऽपेक्षितं यन्निवेदनं प्रार्थनं तस्य वेदनं परिज्ञानं यस्य तस्मै तुभ्यं नमः । मे हृदेवारविन्दं मम चित्तकमलं तस्य विनोदनं विकासो येन तस्मै सूर्याय रविरूपाय नमः ॥ ९६ ॥ मातःस्तवस्तु पदयोस्तव मे स एष यस्या अपाङ्गशरसंकलितो जिनेशः । प्राप्नोति तेत्र सुभगो वरदर्शनन्ना मय्यप्यहो विभवकद्भव सुप्रसन्ना ।। ९७ ॥ मातरिति । हे लक्ष्मि, हे मातस्तव चरणयोर्मे मम स एष स्तवः स्तुतिसंदेशस्तु पुनरस्ति यस्या जगन्मातुरपाङ्गशरेण कटाक्षवाणेन संकलितः संगृहीतो जिनानामोशोऽहन्प्रभुः, किञ्च, यत्ते वरदर्शनं ना मनुष्यमात्रोऽपि, ईहते वाञ्छति, सा त्वं विभवकृत्सर्वसम्पत्तिकों, मयि तव स्तावकेऽपि सुप्रसन्ना भव । इह भूतले, अहो इति समनुरोधे ॥ ९७॥। हे धर्मचक्र तव संस्तव एष पातु पश्चाद् भुवि क परचक्रकथास्तु जातु । दुष्कर्मचक्रमपि यत्प्रलयं प्रयातु सिद्धिः समृद्धिसहिता स्वयमेव भातु ।। ९८ ॥ अर्थ : हे मोह-रहित ! लोकों को आनन्द प्रदान करने वाले प्रभो ! शांतिके शमनके लिए प्रेरक, स्वयं आनन्दस्वरूप, मुक्तिके लिए आवश्यक निवेदन के ज्ञाता, तथा मेरे हृत्कमलके विनोदहेतु सूर्यरूप आपको नमस्कार ___ अन्वय : हे मातः ! तव पदयोः मे सः एषः स्तवः तु यस्याः अपाङगशरसङ्कलितः जिनेशः यत् ते वरदर्शनम् ना अपि ईहते । मयि अपि सुप्रसन्ना विभवकृद् भव । ___अर्थ : हे माता! तुम्हारे चरण में मेरी वह यह स्तुति है जिसके अपाङ्गगरसे जिनेश भगवान् भी परवश हो जाते हैं, तुम्हारे सुन्दर दर्शनको मनुष्य भी चाहता है, आज मेरे पर भी प्रसन्न हो धन सम्पत्ति प्रदाता बनो । ९७ ॥ अन्वय : (हे) धर्मचक्र ! एष तव संस्तवः पातु पश्चात् भुवि परचक्र-कथा जातु क्व अस्तु । यत् दुष्कर्मचक्रम् (तत्) अपि प्रलयम् प्रयातु, समृद्धिसहिता सिद्धिः स्वयम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy