________________
९३-९४ ]
दशमः सर्गः
बिम्बितानीति । अधुना यस्य मण्डपस्य स्वच्छेऽङ्गणे पारदर्शकप्रस्तररचितेऽङ्गणे, बिम्बितानि लाञ्छितानि यानि समागतलोकानां नेत्राणि तानि निस्वापैर्देवलोकैः प्रीत्यापि - तानि पुष्पाणीव दत्तोपहारकुसुमानि यथा भृशं बभुः शुशुभिरे ॥ ९२ ॥ रम्भोचितोरुकस्तम्भा पयोधरघटोछ्रिता
गोमयोपहितास्या च वेदी नेदीयसी स्त्रियाः ।। ९३ ।।
रम्भोचितेति । रम्भाभिः कदलीभिरुचिताः सम्पादिता उदकाः सुदीर्घाः स्तम्भा यस्याः सा पक्षी रम्भा नाम स्वर्वेश्या तस्या उचितौ सदृशावूरुको जङ्घास्तम्भौ यस्याः सा, पयोधरैर्जलपरिपूर्णघंटे: कुम्भैरुच्छ्रिता समुन्नता, पक्ष े पयोधरावेव घटौ ताभ्यामुच्छ्रिता, गोमयेन धेनुशकृतोपहितमाच्छादितमास्यं मुखं यस्याः सा, पक्ष े गौश्चन्द्रमास्तस्य मया लक्ष्म्या, उपहितमास्यं यस्याः सा वेदी देवाधिकरणभूता परिष्कृता भूमिः स्त्रिया नेदोयसी पाश्र्ववर्तिनी तुल्यस्वरूपेति यावद् बभूवेति शेषः । श्लिष्टापमालङ्कारः ॥ ९३ ॥
वेदीं मनोहर मां समगान्नवीनामालोकितुं दृगमुकस्य मुदामधीना । तावद्विचारचतुरापि सुवाक् कपाटं स्मोद्घाटयत्ययि पवित्रितचक्रवाट ।। ९४ ॥
Jain Education International
अन्वय : अधुना यस्य स्वच्छे अङगणे बिम्बितानि नेत्राणि निस्वापैः प्रीत्या अर्पितानि पुष्पाणि इव भृशम् बभुः ।
अर्थ : इस समय मण्डपके अत्यन्त निर्मल आँगन में में प्रतिबिम्बित लोगों के नेत्र, देवलोक से प्रेमपूर्वक समर्पित पुष्पोंकी तरह अत्यधिक सुशोभित होते थे ॥ ९२ ॥
अन्वय : रम्भोचितो रुकस्तम्भा पयोधरघटोच्छ्रिता गोमयोपहितास्या वेदी स्त्रियाः नेदीयसी (बभूव )
से
अर्थ : कदलीके खम्भोंसे बनी हुई, जलपूर्ण कलशोंसे समुन्नत तथा गोबरमुख्य भाग में लिपी हुई वेदी स्त्रीके समान रूप वाली हो गई । क्योंकि स्त्री भी कदलो स्तम्भ सदृश जंघे वाली, कलश सदृश स्तनोंसे युक्त तथा सुन्दर मुख वाली होती है ॥ ९३॥
अन्वय : अयि पवित्रितचक्रवाट ! अमुकस्य मुदाम् अधीना दृक् मनोहरतमाम् नवीनाम् वेदीम् आलोकितुम् समगात् तावत् विचारचतुरा सुवाक् अपि कपाटम् उद्घाटयति स्म ।
४९५
For Private & Personal Use Only
www.jainelibrary.org