________________
जयोदय-महाकाव्यम्
[ ८९-९२ अर्कसंस्कृतकुडयेषु संक्रान्तप्रतिमा नराः ।
विलोक्यन्ते स्फुटं यत्र चित्राङ्का इव मञ्जुलाः ।। ८९ ।। अर्केति । यत्र मण्डपे, अर्केण संस्कृतानि यानि कुड्यानि तेषु भास्करभासितभित्तिषु सङ्क्रान्ताः प्रतिमा मूर्तिर्येषां ते प्रतिबिम्बितदेहा नरा मञ्जुला मनोहराश्चित्राङ्का इव स्फुटं विलोक्यन्ते ॥ ८९॥
पद्मरागकृतारम्भं सदालिविदितस्थिति ।
यद् बिभर्ति स्थण्डिलञ्च ललाटे तिलकायितम् ॥ ९ ॥ पद्मरागेति । यन्मण्डपं पद्मरागैररुणमणिभिः कृत आरम्भो यस्य तत्, पुनः कीदृशं सतां सज्जनानामालि: पंक्तिस्तया विदिता प्रसिद्धा स्थितियस्मिस्तत्, यद्वा, सतीभिरालोभिः सुलोचनासखीविदिता विज्ञाता स्थितिर्यस्य तत्, स्थण्डिलं मध्यस्तूपं ललाटे तिलकमिवावरतीति तिलकायितं बिभर्ति धारयति ॥ ९० ॥
प्रणयस्यैव बीजानि मौक्तिकानि विरेजिरे ।
चतुष्कपूरणे स्त्रीभिः प्रयुक्तानि यदङ्गणे ॥ ९१ ॥ प्रणयस्येति । यदङ्गणे मण्डपस्थले स्त्रीभिः सौभाग्यवतीभिश्चतुष्कस्य पूरणे माङ्गलिके प्रयुक्तान्युपयुक्तानि मौक्तिकानि प्रणयस्यानुरागस्य बीजानीव विरेजिरे ॥ ९१ ॥
बिम्बितानि तु नेत्राणि स्वच्छे यस्याङ्गणेऽधुना ।
प्रीत्यार्पितानि निस्वापैः पुष्पाणीव भृशं बभुः ।। ९२ ।। अन्वय : यत्र अर्कसंस्कृतकुड्येषु सड़ क्रान्तप्रतिमाः नराः मञ्जुलाः चित्राङ्का इव स्फुटं विलोक्यन्ते।
अर्थ : जिस मण्डपमें, सूर्यसे चमकने वाली दीवालोंमें प्रतिबिम्बित होने वाले मनुष्य मनोहर चित्रोंके समान स्पष्ट दिखाई पड़ते थे ॥ ८९ ॥
अन्वय : यत् पद्मरागकृतारम्भम् सदालिविदितस्थिति स्थण्डिलम् ललाटे तिलकायितम् बिति ।
अर्थ : जो मण्डप, पद्मरागमणियोंसे विनिर्मित तथा सज्जनोंको पंक्तिसे विज्ञात मध्यखम्भेको मस्तक पर तिलकके समान धारण करता था ।। ९० ॥ __ अन्वय : यदङ्गणे स्त्रीभिः चतुष्कपूरणे प्रयुक्तानि मौक्तिकानि प्रणयस्य बीजानि इव विरेजिरे।
अर्थ : मण्डपस्थलमें स्त्रियों द्वारा चौक पूरनेमें प्रयुक्त मोतीके दाने प्रेमके बीजकी तरह सुशोभित होते थे ॥ ९१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org