________________
८६-८८ ]
दशमः सर्गः
विशालं शिखर प्रोतबसुसञ्चयशोचिषाम् ।
निचयैस्तु सुनाशीर व्योमयानं जहास यत् ॥ ८६ ॥
विशालमिति । यद्विशालमसंकटं मण्डपं शिखरेषु शृङ्गेषु प्रोतानामङ्कितानां वसूनां रत्नानां पद्मरागवैडूर्णदीनां सञ्चयस्य शोचिषां कान्तीनां सञ्चयै राशिभिः समुज्ज्वलाकारतया सुनाशीरस्येन्द्रस्य व्योमयानं विमानमपि जहास । इन्द्रयानादपि तन्मण्डपं रमणीयतरमासीदित्याशयः । भङ्गयन्तरेण प्रोक्तत्वात् पर्यायोक्तमलङ्कारः ॥ ८६ ॥ वाहिनीव यतो रेजे सुगन्धिनलिनान्तरा । ऊर्मिकाङ्कितसन्तानां मत्तवारणराजिका ।। ८७ ।।
४९३
वाहिनीति । यत्र स्थितानां मत्तवारणानां वन्दनमालिकानां राजिका परम्परा सुगन्धीनि नलिनानि अन्तरे यस्याः सा यन्मध्यभागे कमलानि निचितान्येवं भूताभिरूमिकाभिः शाखा प्रशाखाभिः, पक्षे लहरीभिरङ्कितः सन्तानो विस्तारो यस्याः सा वाहिनीव नदीसदृशी रेजे शुशुभे ॥ ८७ ॥
हीरवीरचिताः स्तम्भा अदम्भास्तत्र मण्डपे ।
बभुः कन्दा इवामन्दाः पुण्यपादपसम्भवाः ।। ८८ ।
हीरेति । तत्र मण्डपे हीरेषु वज्रकेषु ये वीराः प्रधानास्तैश्चिता व्याप्ता ये अदम्भा विशाला: स्तम्भास्ते पुण्यमेव पादपः पुण्यपादपस्तस्मात्सम्भवन्तीति पुण्यपादपसम्भवाः सुकृततरूत्पन्नाः अमन्दाः प्रकाशमानाः कन्दा मूला कुरा इव बभुः । उपमालङ्कारः ॥ ८८ ॥
अन्वय : यत् विशालम् शिखरप्रोतवसु सञ्चयशोचिषाम् निचयैः सुनाशीर व्योमयानम् जहास ।
अर्थ: जो मण्डप अत्यन्त विशाल था तथा ऊपर भागमें जड़े हुए रत्नोंकी राशिकी कान्तिके समूहसे इन्द्रके विमानकी हँसी उड़ा रहा था ।। ८६ ।
अन्वय : यतः मत्तवारणराजिका सुगन्धिनलिनान्तरा ऊर्मिकाङ्कितसन्ताना वाहिनी इव रेजे ।
अर्थ: जहाँ पर वन्दनवारोंकी पंक्ति जिनके बीच में सुगन्धित कमल थे । तथा शाखा प्रशाखाओंसे जो विस्तृत थीं वे नदीकी तरह सुशोभित हो रही थीं। नदी में भी बीच में कमल होते हैं तथा लहरें उठती हैं ॥ ८७ ॥
अन्वय : तत्र मण्डपे हीरवीरचिताः अदम्भाः स्तम्भाः पुण्यपादपसम्भवाः अमन्दाः कन्दा इव बभुः ।
अर्थ : उस मण्डपमें होरेसे बने हुए विशाल खम्भे, पुण्यरूपी वृक्ष से उत्पन्न चमकने वाले अङ्कुरकी तरह प्रतीत होते थे ॥ ८८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org