________________
८१-८३ ]
दशमः सर्गः
समुपात्तमुदश्रुभिः पुनर्दृशि मुक्ताफलता किमस्तु न । इममङ्ग जगत्त्रयोदरेऽमृतरूपं परिपीय सोदरे ॥ ८१ ॥
समुत्तेति । अङ्ग सोदरे भगिनि, इमममृतं निर्दोषं रूपं स्वरूपं यस्य तं यद्वाSमृतस्य पीयूषस्य रूपमिव रूपं यस्य तं परिपीय समाकलय्यास्मिन् जगत्त्रयस्योदरे गर्भे पुनः सम्यगुपात्तैः स्वीकृतंमुवः प्रमोदस्याश्रुभिदृशि चक्षुषि मुक्ताफलता, मुक्ता परित्यक्ताऽफलता निरर्थकता यद्वा मुक्ताफलता मौक्तिकरूपा किन्नास्तु, अस्त्वेव तावत् ॥ ८१ ॥
सद्भिराशासितः प्राप भूमिभृद्भवनं पुनः ।
घयन्मोदपाथोधं स राजा विशदांशुकः ।। ८२ ॥ सद्भिरिति । पुनरनन्तरं स राजा वरराजश्चन्द्रमा वा विशवान्यंशुकानि वस्त्राणि यस्य सः, पक्षे विशदा अंशुकाः किरणा यस्य स विशदांशुकः सद्भिः सभ्यैः पक्षे नक्षराशासितः परिवारितः मोदस्य हर्षस्य पाथोधि समुद्रमेधयन् वर्धयन् समुद्र े लयन्नित्यर्थः भूमिभृतो राज्ञोऽकम्पनस्य, पक्षे, उदयगिरेर्भवनं स्थानं प्राप । श्लेषानुप्राणितोपमा
लङ्कारः ॥ ८२ ॥
स वरोऽभीष्टसिद्ध्यर्थं समाचक्राम तोरणम् । तत्वार्थाभिमुखो ज्ञानी यथा दृङ्मोहकर्म तत् ॥ ८३ ॥
४९१
यज्ञपति चन्द्रमा शीघ्र ही सुन्दर गोलाई ( चरित्रवत्ता ) को प्राप्त होकर भी क्या इस जयकुमारके मुखकी तुलना नहीं प्राप्त कर सकता 11 20 11
अन्वय : अङ्ग सोदरे ! इमं अमृतरूपम् परिपीय जगत्त्रयोदरे पुनः समुपात्तमुदश्रुभिः दृशि मुक्ताफलता किम् न अस्तु ?
अर्थ : हे बहन ! अमृततुल्य इस जयकुमारको आँखोंसे देख तीनों लोकोंके मध्य हर्षकी अश्रुओंसे नेत्रमें मुक्ताफलता ( सफलता अथवा मुक्तायुक्तता ) क्यों न हो ॥ ८१ ॥
अन्वय : पुनः सः राजा विशदांशुकः सद्भिः आशासितः मोदपाथोधिम् एधयन् भूमिभृद्भवनम् प्राप ।
अर्थ : फिर राजा जयकुमार, स्वच्छ वस्त्रवाले, सभ्यों सहित हर्षरूपी समुद्रको बढ़ाते हुए महाराज अकम्पनके महलको प्राप्त हुए-जैसे कि चन्द्रमा, स्वच्छ किरणों वाला हो, नक्षत्रोंसे वेष्टित, समुद्रको उद्वेलित करता हुआ उदयाचल पर आता है ॥ ८२ ॥
अन्वय : सः वरः अभीष्टसिद्ध्यर्थम् तोरणम् समाचक्राम । यथा तत्त्वार्थाभिमुखः ज्ञानी तत् दृङ्मोहकर्म ( समाक्रामति ) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org