SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ४९० जयोदय-महाकाव्यम् [७९-८० ___ अथेति । अथानन्तरं खल्वित्यतः सोमजस्य जयकुमारस्य वाहिनी सेना, वरयात्रा वा ततः पद्माया आलयः पद्मालयो राजभवनं तस्य माला, प्रसङ्गप्राप्ता जनपङ्क्तिः साऽस्यास्तीति पद्मालयमालिनी सुलोचनाप्रासादलोकसमुदायश्रेणीत्यर्थः । अनयोरुभयोमिलनं सम्मेलनं तस्य श्रीः शोभा तां श्रयन्ती सेवमाना या जनता मानवसमूहः स तदा सिद्धः ख्यातश्चासौ वरः प्रकृष्टसौन्दर्यशाली यो जयकुमारस्तं व्यभावयत् विशिष्टरूपेण भावयाञ्चकार ॥ ७८॥ किमनन्य इवाश्विनीसुतः स्विदनङ्गोल्लसदङ्गवानुत । नहि किन्नर एष विन्नरो भवतां येन सतामिहादरः ॥ ७९ ॥ किमनन्य इति । तं वरमवलोक्य लोकास्तर्कयन्ति-किम् एष वरोऽनन्योऽद्वितीयोऽश्विनीसुतोऽश्विनीकुमार इवास्ति, स्वित् अथवा, उल्लसदङ्गमस्यास्तीत्युल्लसदङ्गवान्, मनोज्ञशरीरधारी, अनङ्गः कामो विद्यते, उदेष किन्नरः सुधी पुरुषः किन्नरो गन्धर्वोऽस्ति एव किन्नरोऽपि न यतो विन्नरोऽयं यतश्च सतां भवतामिहादरः । सन्देहालङ्कारः ॥ ७९ ॥ मखभस्मधृताङ्गलाञ्छनः पतिरार्ये किमु यज्वनां स न । मुखमस्य सञ्चितुं सतः प्रभवेदाशु सुवृत्ततां गतः ॥ ८० ॥ मखेति । हे आर्ये, मखस्य यज्ञस्य भस्मना विभूत्या धृतं समुद्भासितमङ्गस्य लाञ्छनं येन स यज्वनां पतिश्चन्द्रमा आशु शीघ्रमेव सुवृत्ततां शोभनवलाकारत्वमेव सदाचारवत्तां गतोऽङ्गीकारकः सन्नस्य सतः प्रशस्तस्य मुखमाननं समञ्चितुकिमु न प्रभवेदपि तु प्रभवेदिति यतोऽयमपि सुवृत्तो यागविभूतिभूषितशिराश्चेति ॥ ८ ॥ श्रयज्जनतासिद्धवरम् व्यभावयत् । ___अर्थ : पश्चात्, एक ओर जयकुमारकी सेना तो दूसरी ओर सुलोचनाके प्रासादोंके जनसमूहका आपस में मिलना लोगोंको सिद्धवर ऐसा प्रतीत हुआ ॥ ७८॥ अन्वय : किम् एष अनन्यः अश्विनीसुतः इव (अस्ति) स्वित् लसदङ्गवान् अनङ्गः, उत ( एष ) विन्नरः किन्नरः नहि येन भवताम् सताम् इह आदरः । ___ अर्थ : क्या यह एकाकी अश्विनीकुमारकी तरह है, अथवा सुन्दर अंगोंवाला. कामदेव है, यह विद्वान् है इसलिए किन्नर नहीं हैं, क्योंकि सज्जन आप लोगोंका इसमें आदरभाव है ॥ ७९ ॥ अन्वय : आर्ये ! मखभस्मधृताङ्गलाञ्छनः यज्वनाम् पतिः सः आशु सुवृत्तताम् गतः ( अपि ) अस्य सतः मुखम् समञ्चितुम् किमु न प्रभवेत् ? अर्थ : हे आर्ये ! यज्ञकी भस्मसे अंगोंमें लांछन ( धूम ) धारण करनेवाला, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy