________________
४८९
७६-७८ ]
दशमः सर्गः प्रथमं परिभूष्य काशिकामियमेतस्य सतो हृदाशिका । पृथुपुण्यविधेरुपासिकाऽस्ति यतः श्रीश्च यदध्रिदासिका ॥ ७६ ।।
प्रथममिति । इयं सुलोचना प्रथमं काशिका परिभूष्य, स्वजन्मनालङ्कृत्य पुनरघुनेतस्य सतो जयकुमारस्य हृद आशिकाऽस्ति, या पृथुपुण्यविधेः परमधर्मानुष्ठानस्योपासिकाऽराधयित्री वर्तते । यतः कारणाच्छीलक्ष्मीः स्वयं यस्या अज्रयोश्चरणयोर्वासिका सेवमाना दासीव भवतीति शेषः ॥ ७६ ॥
घटकं तु विधि तयोः सतोरनुजानामि वरं विचारिणाम् । जडमित्यनुजानतां वचः शुचि तावद्धरणौ विरागिणाम् ।। ७७ ॥ घटकमिति । हे सखि, सतोः सुन्दरयोः तयोः सुलोचनाजयकुमारयोर्घटकं निर्मापक विधि विधातारं विचारिणां मनस्विनां मध्ये सर्वश्रेष्ठमनुजानामि, तं पुनर्जडमनुजानतां विरागिणामार्हतानां वचः कथनं यद्भवति तद्धरणौ शुचि पवित्रमेवास्ति । अयं भाव :प्राणिनां शुभाशुभविधिविधायकमदृष्टं तत्पौद्गलिकं निर्जीवमेव वस्तु भवतीति जैनसिद्धान्तः। किन्त्वीदृशोर्योग्यस्वभावयोः प्राणिनोः संयोजकमदृष्टं चैतन्यमेव प्रतिभाति, इति नश्चित्तम् इति परमताश्रितामाशङ्कामनु नग्राह ॥ ७७ ॥
अथ सोमजवाहिनीत्यतः खलु पद्मालयमालिनी ततः । अनयोमिलनं श्रियं श्रयज्जनतासिद्धवरं व्यभावयत् ॥ ७८॥
सुन्दर इस चन्द्रमाको छोड़कर सतो कुमुदिनी सूर्य के लिये कैसे इच्छा कर सकती है। ( अयवा चन्द्र सदृश सुन्दर इस राजाको छोड़, सुलोचना दूसरे राजाको कैसे वरण कर सकती है ?) ।। ७५ ॥
अन्वय : इयम् प्रथमम् काशिकाम् परिभूष्य एतस्य सतः हृदाशिका ( अस्ति ) । पृथुपुण्यविधेः उपासिका अस्ति, यतः श्रीः यदङ्घिदासिका।
अर्थ : इस सुलोचनाने सर्वप्रथम काशीको अपने जन्मसे अलंकृत किया, फिर इस जयकुमारके हृदयकी आशा बन बैठी, क्योंकि यह श्रेष्ठ धर्मको उपासना करने वाली है। इसीलिए लक्ष्मी भी इसके चरणोंकी सेवा करती है ।। ७६ ।।
अन्वय : सतोः तयोः घटकम् विधिम् विचारिणाम् ( मध्ये ) वरम् अनुजानामि जडम् इति अनुजानताम् विरागिणाम् वचः तावत् धरणौ शुचि ।।
अर्थ : सुन्दर उन दोनों ( सुलोचना व जयकुमार )को बनाने वाले विधाताको बुद्धिमानोंके बीच में सर्वश्रेष्ठ मानता हूँ। 'विधाता जड़ है' ऐसा कहनेवाले विरागियोंका वचन तो पृथ्वोपर पवित्र ही है ।। ७७ ॥
अन्वय : अथ खलु सोमजवाहिनी ततः पद्म लयमालिनी अनयोः मिलनम् श्रियम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org