SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ४८७ ७०-७२] दशमः सर्गः श्वशुरालयवर्तिनो निजे पतितां दृग्भ्रमरी मुखाम्बुजे । अवरोधुमिवावगुण्ठतः सुदृगाच्छादयदप्यकुण्ठतः ॥ ७० ॥ श्वशुरेति । शोभने दृशौ लोचने यस्याः सा सुदृक् कापि स्त्री श्वशुरालयवतिनो वल्लभपक्षीयस्य दृगेव भ्रमरी दृग्भ्रमरी तां निजे मुखाम्बुजे वक्त्रपङ्कजे पतितां निबद्धां तामकुण्ठतोऽनल्पपरिणामभृतोऽवगुण्ठतो वस्त्राच्छादनतोऽवरोधुमिवाच्छादयत् । वरपक्षीयपुरुषावलोकने सति मुखाच्छादननाम स्त्रीणामाचारः। तत्रैवमुत्प्रेक्ष्यते । उत्प्रेक्षालङ्कारः ॥ ७० ॥ प्रतिदेशमशेषवेशिनः स्वयमप्युज्ज्वलसन्निवेशिनः । प्रवरस्य वरस्य वीक्षणात् पुरनार्यः स्म भणन्त्यतः क्षणात् ॥ ७१ ॥ प्रतिदेशमिति । प्रतिदेशमशेषः समाप्ति गतो यो वेशः शृङ्गारस्तद्वतः स्वयं स्वभावेनाप्युज्ज्वलो निर्मलो यः सन्निवेशस्तद्वतश्र्चवं प्रवरस्य विचक्षणस्य वरस्य तस्य जयकुमारस्य वीक्षणादवलोकनाद् अतोऽनन्तरं पुरनार्यः पुरन्त्र्यः क्षणात्तत्कालादेवं भणन्ति स्म आहुः ॥ ७१॥ सुदृशो भुवि वृत्तसत्तमैनृपवृत्तैः कविवृत्तकैः समैः । जगतां त्रितयस्य सत्कृतं चितमूहेऽमुकमालिके सितम् ।। ७२ ।। सुदृश इति । हे आलिके, सखि, पृथिव्यां सुदृशः सुलोचनाया वृत्तान्याचरणानि, एव स्त्तमानि प्रशंसनीयानि तैरेवं च नृपस्य अकम्पनस्य वृत्तश्चेष्टितैस्तथा च कवेर्यशोगायकस्य वृत्तैरेव वृत्तकैश्छन्दोभिः समैर्मनोहरैर्यज्जगतां त्रितयस्य सत्कृतं पुण्यजातं सर्वमेवामुकं पवित्रमिति चितं संगृहीतमेवाहमहे ॥ ७२ ॥ अन्वय : सुदृक् ( काऽपि ) श्वसुरालयवतिनीम् दृग्भ्रमरीम् निजे मुखाम्बुजे पतिताम् अकुण्ठतः अवगुण्ठतः अवरोधुम् इव आच्छादयत् । अर्थ : सुन्दर नेत्रोंवाली किसी स्त्रीने वर देखनेकी अभिलाषा की, इसी बीच ससुरालके किसी पुरुषने उसकी ओर देखा तो उसने अपना पूंघट आगे कर लिया, मानों उसकी दृष्टिने भौरोंको दबा रखने के लिए ही ऐसा किया ॥ ७० ॥ ___अन्वय : प्रतिदेशम् अशेपवेशिनः स्वयमपि उज्ज्वलसन्निवेशिनः प्रवरस्य वरस्य वीक्षणात् अतः पुरनार्यः क्षणात् भणन्ति स्म । अर्थ : प्रत्येक अंगोंमें आभूषणोंसे अलंकृत, स्वयं भी स्वच्छ शरीरवाले योग्य वरके देखनेसे नगरकी स्त्रियाँ आपसमें इस प्रकार बातचीत करने लगीं ॥ ७१ ।। ___ अन्वय : हे आलिके ! भुवि सुदृशः वृत्तसत्तमैः नृपवृत्तः कविवृत्तकः समः जगताम् त्रितयस्य सत्कृतम् अमुकम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy