________________
४८२ जयोदय-महाकाव्यम्
[ ५७-५९ गुणकृष्ट इति । कण्टकिताङ्गधारको रोमाञ्चितदेहः, सुदृशः सुलोचनाया गुणकृष्टः सौन्दर्यसद्गुणाकर्षित इव, अधिकारकः स्वामी, महीमीक्षत इति महीक्षिता पृथ्वीदर्शकः, इह क्षितौ शनकैजन् स जयः कैर्जनैर्न दृष्टः ॥ ५६ ॥
अयि रूपममुष्य भूषिणः सुषमाभिश्च सुधांशुदूषिणः । द्रुतमेत च पश्यतेति वाऽमृतकुल्येव ससार सारवाक् ॥ ५७ ॥
अयोति । अयि द्रुतमेत, आगच्छत, सुषमाभिः सुधांशुदूषिणश्चन्द्रमपि तिरस्कुर्वतः, भूषिणोऽलङ्कृतस्यास्य रूपं पश्यत-इत्यमृतकुल्येव सारवाङ् मनोहरा स्त्रीणां वाक् ससार प्रसृता। स्वभावोक्तिरलङ्कारः ॥ ५७ ॥
अथ राजपथान् जनीजनः सविभूषोऽरमभूषयद् घनः । सदनान्मदनादनात्मको वरमागत्य निरीक्षितुं सकः ॥ ५८ ॥ अथेति । अथ विभूषाभिः सहितः सविभूषः सालङ्कारः घनो विपुलः, मदनमात्मा यस्य स प्रमोदसम्भृतः, सको जनोजनः प्रमदासमूहः, वरं जयकुमारं निरीक्षितु सदनाद्वासगृहाद् आगत्य, राजपथान् नृपमार्गानभूषयदलञ्चकार । प्रमदाजनस्य कौतुकप्रियत्वाद्वरयात्रावलोकनं स्वभावः। अतएवात्र स्वभावोक्तिरलङ्कारः ॥ ५८ ॥
दृशि चैणमदः कपोलकेऽञ्जनकं हारलतावलग्नके । रशना तु गलेऽवलास्विति रयसम्बोधकरी परिस्थितिः ॥ ५९॥
अर्थ : सुलोचनाके गुणोंसे आकृष्टकी तरह पृथ्वीको देखनेवाले और धीरेधीरे जाते हुए रोमाञ्चित अङ्गोंवाले महाराज जयकुमारको किसने भली-भांति नहीं देखा ? ॥ ५६ ॥ ___ अन्वय : अयि द्रुतम् एत सुषमाभिः सुधांशुदूषिणः भूषिणः अमुष्य रूपं पश्यत इति अमृतकुल्या इव सारवाक् ससार । __ अथ : अरे! जल्दी आइये, अपने सौन्दर्यसे चन्द्रको तिरस्कृत करनेवाले अलंकृत इसके रूपको देखिये, इस प्रकार अमृतकी नहरकी तरह मनोहर वाणी चारों तरफ फैल गयी ॥ ५७ ।।
अन्वय : अथ सविभूषः घनः मदनात् अनात्मकः सकः जनीजनः वरं निरीक्षितुं सदनात् आगत्य राजपथान् अभूषयत् ।
अर्थ : अनन्तर, बहुत बड़ा तथा कामवशीभूत, अलंकृत स्त्रियोंके उस समूहने वरको देखनेके लिए वासगृहोंसे निकलकर राजमार्गको व्याप्त कर लिया ॥ ५८ ॥
अन्वय : अबलासु इति रयसम्बोधकरी परिस्थितिः ( अभूत् ) । ( काचित् ) दृशि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org