________________
४८०..
जयोदय-महाकाव्यम्
[५१-५३ रथमेव मथोपढौकितः किमु पनाङ्गमुदेन सोऽङ्कितः ।। रविवच्च विभासुरच्छविर्वदतीदं विभवाश्रयः कविः ॥५१॥ रथमेवमिति । अथ पनाया लक्ष्मीरूपाया सुलोचनाया अङ्ग शरीरं तस्य मुदेन तववलोकनहर्षेणाङ्कित उपलक्षितः, पुनर्विशेषरूपेण वरनेपथ्येन भासुरा दोप्यमाना छविः कान्तिर्यस्य स जयकुमारः, रविवत्सूर्यतुल्यः सूर्योऽपि पद्मानां कमलानामङ्गस्य मुदेन विकासरूपेणोपलक्षितः, भासुरच्छवि प्रकाशमानकान्तिश्च भवति, रथं स्यन्दनमेवोपढौकित 'आरूढः किमु ? सूर्योऽपि रथारूढः सन्नेवोदयत इति प्रसिद्धिः। विभवस्य काव्यरचनौपयिकाप्रतिमप्रतिभापाटवरूपैश्वर्यस्य आश्रयः कविरिवं वदति । श्लेषानुप्राणितोत्प्रेक्षालङ्कारः ॥५१॥
स पवित्र इतीव सक्रियासहितः सम्महितो वरश्रिया । शुचिवेषधरैः पुरस्सरैश्च सुनाशीर इवाभवन्नरैः ॥ ५२ ॥
स इति । इह वरस्य श्रिया शोभया सम्महितः शोभमानः, सत्क्रिया पापत्यागादिदेवार्चनसहितः, पवित्रः शुचिः स जय इतीवैवम्भूतः, शुचिवेशधारिभिः पुरस्सरैनरैः सुनाशीर इन्द्र इवाभवत् । उपमालङ्कारः ॥५२॥
नरपोऽनुचराननुक्षणं समयासन्नतरत्वशिक्षणम् । निदिदेश समुल्लसन्मतेः पथि साथ पृथुचक्रिरेऽस्य ते ॥ ५३ ॥ नरप इति । नरपो राजाऽकम्पनोऽनुचरान् सेवकान् अनुक्षण वारं वारं समयासन्नत
अन्वय : अथ पद्माङ्गमुदेन अङ्कितः विभासुरच्छविः सः रविवत् रथम् एव उपढीकितः किमु, विभवाश्रयः कविः इदं वदति ।
अर्थ : पश्चात् 'लक्ष्मीरूपिणी सुलोचनाके देखनेके हर्षसे चिह्नित, अत्यन्त प्रकाशमान कान्तिवाले महाराज जयकुमार सूर्यकी तरह रथपर चढ़े' ऐसा काव्यरचनाचतुर कविका कहना है । ( सूर्य भी कमलोंके विकासरूपमें उपलक्षित है) ॥ ५१ ॥
अन्वय : वरश्रिया सम्महितः सस्क्रियासहितः पवित्रः सः इति इव शुचिवेषधारिभिः पुरस्सरः नरैः सुनाशीर इव अभवत् ।
अर्थ : अथवा सौन्दर्यसे सुशोभित, देवार्चनादिसत्क्रियायुक्त, पवित्र वह जयकुमार इस प्रकार स्वच्छ वेष धारण करनेवाले लोगोंसे युक्त हो साक्षात् इन्द्र-सा प्रतीत हो रहा था || ५२ ॥
अन्वय : नरपः अनुचरान् अनुक्षणं समयासन्नतरत्वशिक्षणं निदिदेश । ते समुल्लसन्मतेः अस्य पथि पृथु साथं चक्रिरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org