SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ४८-५० ] दशमः सर्गः स्वसदोदयतामनाकुलामिह नक्षत्रकमालिकाऽमला । उपलब्धुमिवार्थिनी हिता वदनेन्दोः पदसीमनि स्थिता ॥ ४८ ॥ स्वसदोदयतामिति । इह जयकुमारस्य कण्ठेऽमला स्वच्छा हिता शोभाकारिका नक्षत्रकमालिका मौक्तिकमाला परिधापितेति शेषः । याऽनाकुलामविनाशिनीं स्वसवोदयितां सततदीप्यमानतामुपलब्धुं प्राप्तुमर्थिनी सती तस्य वदनेन्दोमुखचन्द्रस्य पदसीमनि स्थानसीमायां स्थिता बभूवेत्यर्थः । सदा प्रकाशमानतां लब्धुमिवेति क्रियोत्प्र क्षालङ्कारः ॥ ४८ ॥ प्रतिदेशमवाङ्किनामलङ्करणानां मणिमण्डले परम् । निजरूपनिरूपिणे घृणाकरि अस्मै खलु दर्पणार्पणा || ४९ ॥ प्रतिदेशमिति । प्रतिदेशं प्रत्यवयवमवाङ्किना परिहितानामलङ्करणानां मणिमण्डले रत्नराशौ परमत्यन्तं निजरूपं निरूपयति तस्मै स्वरूपदर्शिनेऽस्मै परिजनविहिता दर्पणस्यार्पणा मुकुरदानं घृणाकरी निरपेक्षा गर्ह्याऽभवदित्यर्थः ॥ ४९ ॥ ननु तस्य तनुर्विभूषणैः सहजप्रश्रयभूरदूषणैः । लसति स्म गुणैरिवोज्ज्वलैरधुनासौ परिणामकोमलैः ॥ ५० ॥ नन्विति । या तस्य जयस्य तनुः शरीरं सहजप्रश्रयभूः प्राकृतिकमार्दवाश्रयाऽभवत्, असावधुनाऽदूषणैर्दोषरहितं विभूषणैरलङ्कारः, उज्ज्वलैः प्रभासमानैः परिणामको गुणदयादाक्षिण्यादिसद्गुणैरिव लसति स्म शोभते स्म । उपमालङ्कारः ॥ ५० ॥ ( अँगूठीवाला ) बना ॥ ४७ ॥ अन्वय : इह अमला हिता च नक्षत्रमालिका ( परिधापिता ), ( या ) अनाकुलां स्वसदोदयताम् उपलब्धुम् अर्थिनी इव सती वदनेन्दोः पदसीमनि स्थिता । अर्थ : जयकुमारके गलेमें स्वच्छ एवं अतिसुन्दर नक्षत्रमाला ( मोतीकी माला ) पहना दी गयी जो कभी नष्ट न होनेवाली दीप्तिको प्राप्तिकी याचक हो मानो चन्द्रसदृश मुखके घेरे में आकर खड़ी हो गयी ॥ ४८ ॥ अन्वय : प्रतिदेशम् अवाङ्किनाम् अलङ्करणानां मणिमण्डले परं निजरूपनिरूपिणे अस्मै खलु दर्पणार्पणा घृणाकरि ( अभूत् ) । अर्थ : प्रत्येक अङ्गमें धारण किये गये आभूषणोंकी रत्नराशिमें अपने स्वरूपको देखनेवाले जयकुमारके लिए दर्पणप्रदान निरर्थक हो रहा ॥ ४९ ॥ अन्वय : तस्य तनुः सहजप्रश्रयभूः ( अभवत् ) असौ अधुना अदूषणैः विभूषणः उज्ज्वलैः परिणामकोमलैः गुणः इव लसति स्म । Jain Education International ४७९ अर्थ : जयकुमारका शरीर स्वभावतः कोमल था । इस समय वह निर्दोष अलङ्कारोंसे उज्ज्वल एवं परिणामतः मृदु गुणोंके समान सुशोभित होने लगा ॥ ५० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy