________________
दशमः सर्गः
४७३
३२-३३ ] कृत् प्रश्नकारकं सकृद् एक प्रश्नाक्षरमस्तीति मत्वा कापि सखी तस्या ललाटे तिलकस्य च्छलेन गोलविशेषकनिर्माणेन परमुत्कृष्टं यथार्थमुत्तरं ददौ । वर्तुलतिलकवारणेन शून्यार्थः सूच्यते । तेनास्याः प्रतिमा नास्त्येवेति व्यज्यते ॥ ३१ ॥
सकलासु कलासु पण्डिताः सुतनोरालय इत्यखण्डिताः । न मनागपि तत्र शश्रमुः प्रतिदेशं प्रतिकर्म निर्ममः ॥ ३२ ।।
सकलास्विति । सुतनोः सुलोचनाया आलयः सख्यः सकलासु कलासु, अखण्डिताः पूर्णाः पण्डिता आसन्निति शेष इत्यतस्ताः प्रतिदेशं प्रतिशरीरावयवं प्रतिकर्म प्रसाधनं निममुः व्यरचयन्त । तथापि तत्र ता मनागीषदपि न शश्रमः परिश्रान्ताः, इत्यर्थः । अनेनालीनां कौशलं ध्वन्यते ॥ ३२ ॥
अलिकोचितसीम्नि कुन्तला विबभूवुः सुतनोरनाकुलाः । सुविशेषकदीपसम्भवा विलसन्त्योऽञ्जनराजयो न वा ।। ३३ ॥
अलिकेति । सुतनोरलिकोचितसीम्नि ललाटप्रान्तेऽनाकुलाः प्रसाधनीप्रसाधिता ये कुन्तलाः कचास्ते सुविशेषक शुभतिलकमेव दीपकस्ततः सम्भवा विलसन्त्यः शोभमाना अजनराजयः कज्जलपङलयः सन्ति किंवा केशा इति सन्देहो जायते । तेन कज्जलकृष्णास्तस्याः कचा आसन्निति ध्वन्यते । सन्देहालङ्कारः ॥ ३३ ॥
-
अन्वय : सुतनोः प्रतिमाविषये भ्रूयुगम् अनुयोगकृत् सकृत् अक्षरम् ( अस्ति ), इति ( मत्वा ) कापि तिलकच्छलेन परं नकारम् उत्तरम् ददो।
अर्थ : सुन्दर शरीरवाली सुलोचनाकी बराबरीमें उसकी दोनों भौंहें एक प्रश्नाक्षर हैं, ऐसा मानकर किसी सखीने उसके मस्तक पर तिलकके कपटसे मानो उत्कृष्ट निषेधात्मक उत्तर दे दिया ॥ ३१ ।।
अन्नय : सुतनोः आलयः सकलासु कलासु अखण्डिताः पण्डिताः ( आसन् ), इति ( ताः ) प्रतिदेशं प्रतिकर्म निर्ममुः । ( किन्तु ) तत्र मनाक अपि न शश्रमः ।
अर्थ : उस सुलोचनाकी सखियाँ सम्पूर्ण कलाओंमें पूर्ण पण्डित थीं, इसलिए उन्होंने प्रत्येक अंगोंको भलीभांति अलंकृत किया, परन्तु उसमें थोड़ा भी परिश्रम उन्हें नहीं हुआ ॥ ३२॥ ____ अन्वय : सुतनो: अलिकोचितसीम्नि अनाकुलाः कुन्तलाः सुविशेषदीपसम्भवाः विलसन्त्यः अञ्जनराजयः न वा ( इति ). विबभुवुः ।
अर्थ : नताङ्गी ( सुलोचना )के ललाट प्रदेशमें सँवारे गये केशोंने लोगोंको संशय में डाल दिया कि यह तिलकरूपी दीपकसे उत्पन्न कहीं कज्जलका समूह तो नहीं है ।। ३३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org