________________
२०-२२ ]
दशमः सर्गः युवतेरुरसीति रागतः स तु कोलम्बकमेवमागतम् । समुदीक्ष्य तदेययाऽधरं खलु वेणुः सुचुचुम्ब सत्वरम् ॥ २० ॥ युवतेरिति । कस्याश्चिावत्या उरसि वक्षःस्थले रागतः श्रीकल्याण-दीपकादिरागाद्धेतोः कोलम्बकं वीणादण्डमागतं समुदीक्ष्य वेणुर्वाद्यभेदस्तदा ईय॑या सत्वरं तस्या अधरं सुचुचुम्ब निनिश ।' अतिशयोक्त्यनुप्राणितं पर्यायोक्तम् । वस्तुतः सा वेणुवादनमारेभे, इति तात्पर्यम् । 'वीणादण्डस्तु कोलम्ब' इत्यमरः ॥ २० ॥
शुचिवंशभवच्च वेणुकं बहुसम्भावनया करेऽणुकम् । विवरैः किमु नाङ्कितं विदुहुंडकश्चेति चुकूज सन्मृदुः॥ २१ ॥
शुचीति । शुचिवंशाद् भवतीति शुद्धवेणुभवेच्छुर्वेणूत्पन्नमणुकमपि वेणुकं यधुवतिकरे बहुसम्भावनयाऽत्यादरेण स्थितमस्तीति शेषः । तद्विवरैश्छिद्रे दोषैर्वाङ्कितमिति जना न विदुनं जानन्ति, इति मृदुपरिहसन् हुडको वाद्यभेदश्च चुकूजाऽकूजदित्यर्थः । उत्प्रेक्षा. लङ्कारः ॥ २१॥
परिचारिजनास्यनिःस्वनः पटहादीच्छितनादतो घनः ।
अभवत् प्रतिनादमेदुरः स्विदमेयो गगनोदरे चरन् ॥ २२ ॥ परिचारीति । यः परिचारिजनानामास्यानां मुखानां निःस्वनः कोलाहल: पटहा
अन्वय : युवतेः उरसि रागतः एवं कोलम्बकम् आगतम् इति समुद्वीक्ष्य वेणुः तदा खलु ईय॑या सत्वरम् अधरं सुचुचुम्ब ।
अर्थ : युवतीके वक्षःस्थलपर अनुरागसे आये वीणादण्डको देख बाँस ( वेणु ) ने उस समय ईष्यासे तुरत ( किसी दूसरी ) युवतीके अधरका चुम्बन कर लिया ॥ २० ॥
अन्वय : शुचिवंशभवम् अणुकम् ( अपि ) वेणुकं ( यत् ) करे बहुसम्भावनया (स्थितम् अस्ति तत्), विवरैः अङ्कितम् इति न विदुः ( इति ) सन् मृदुः हुडुकः चुकूज ।
अर्थ : उत्तम कुलमें उत्पन्न, छोटा भी वेणुवाद्य यद्यपि युवतीके हाथमें ससम्मान है, फिर भी क्या वह छिद्रों ( दोषों) से युक्त नहीं है, इस प्रकार मन्दहास्य करता हुआ हुडुक वाद्य भी बजने लगा ।। २१ ।।
अन्वय : ( यः ) परिचारिजनास्यनिस्वनः ( सः ) पटहादीच्छितनादतः ( अपि ) घनः ( आसीत् ) । प्रतिनादमेदुरः गगनोदरे चरन् स्वित् अमेयः अभवत् ।।
अर्थ : सेवकजनोंके मुखकी ध्वनि नगाड़ेकी आवाजसे भी बढ़कर थी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org