________________
४६८
जयोदय-महाकाव्यम्
[१७-१९ प्रभवन्मृदुलाङ्कुरोदयं स्वयमित्यत्र तदानको ह्ययम् ॥
सः सं धरणीतलं यदप्यकरोच्छब्दमयं जगद्वदन् ।। १७ ॥ प्रभवन्निति । तदा स्वयं वदन् वाद्यमानः सन् अयमानक इत्यत्र राजप्रासावे धरणीतलं प्रभवन्तो ये मृदुला अङ्कुरास्तेषामुदयो यस्मिन्, प्ररोहत्कोमलशष्पं.सरसमकरोत् । किञ्च सहैव जगत्संसारं शब्दमय-प्रचुररव भैरवञ्चःअकरोत् । कार्यद्वयस्य युगपत्सम्पादनात् सहोक्त्यलङ्कारः ॥ १७ ॥
तदुदात्तनिनादतो भयादपि सा सम्प्रति वल्लकीत्ययात् ।। विनिलेतुमिवाशु तादृशि पृथुले श्रीयुवतेरिहोरसि ॥ १८ ॥
तदुदात्तेति । इह तनुदात्तनिनादत आनकप्रचण्डध्वानतः, भयात् सम्प्रति सा वल्लको वीणापि, आशु तावृशे पृथुले विशाले, श्रीयुवतेः कस्याश्चिमुग्धतरुण्या उरसि हृदये विनिलेतुमिव अयात् ययो । क्रियोत्प्रेक्षातिशयोक्तयोः सङ्करः ॥ १८ ॥
प्रणनाद यदानकस्तरामपि वीणा लसति स्म सापरा ।। प्रसरद्रससारनिझरः स निसस्वान वरं हि झझेरः ॥ १९ ॥
प्रणनादेति । यदानकः प्रणनाद अतिशयमनवत् तदा साऽपरा वीणापि लसति स्म वाद्यमानाऽऽसोदित्यर्थः । पुनः स प्रसरन् रससारस्य निर्झरः प्रवाहो यस्माद् वरं मनोहरं निसस्वानशब्दमकरोत् । होति वाक्यपूरणार्थः ॥ १९ ॥
अन्वय : तदा हि स्वयं वदन् अयम् आनकः इति अत्र धरणीतलं प्रभवन्मृदुलाङ्करोदयं सरसम् अकरोत् । ( सहैव ) यत् जगत् ( तत् ) अपि शब्दमयम् ( अकरोत् )।
अर्थ : उस समय स्वयं बजते इस दुन्दुभिने राजभवन में भूतल को नये अंकुरोंसे युक्त करते हुए सरस कर दिया ( जैसे कि मेघ पृथ्वीतल को जलसे अकुरित कर देता है)। साथ ही इसने संसारको भी शब्दायमान कर दिया, संसार भी इसकी ध्वनिसे गूंज उठा ॥ १७ ॥
अन्वय : इह तदुदात्तनिनादतः भयात् सम्प्रति सा वल्लकी अपि आशु तादृशि पृथुले श्रीयुवतेः उरसि विनिलेतुम् इव अयात् ।
___ अर्थ : भेरीकी गम्भीरध्वनिके भयसे इस समय वह वीणा भी अविलम्ब मानो छिपनेके लिए किसी युवतीके विशाल वक्षःस्थल में जा पहुँची ॥ १८ ॥
अन्वय : यदा आनकः प्रणनादतरां सा अपरा वीणा अपि लसति स्म । ( पुनः ) प्रसरद्रससारनिर्झरः स झर्झरः हि वरं निसस्वान ।
अर्थ : जब भेरी जोरोंसे बजने लगी, तो वीणा भी अपनी मधुर ध्वनिसे सुशोभित होने लगी। साथ ही आनन्दका सार-प्रसार करती झाँझ भी बजने लगी ॥ १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org