________________
६७
१५-१६ ]
दशमः सर्गः मृदुमोदमहोदधिश्रिया नवनीतोत्तमभावमन्वयगात् । अमृतस्थितिगोतमावृतेः सुरभिस्थानमिदं स्म राजते ॥ १५ ॥
मृदुमोदेति । अथवेदं राजसदनं सुरभिस्थानं गोकुलस्थानमिव राजते स्म । तदेवाह-मृदुमोदस्य मधुरहर्षस्य महीदधिर्महासागरस्तस्य श्रिया शोभया । गोकुलस्थानपक्षे, मृदुमोदस्य हर्षस्य मह एव दधि तस्य श्रिया कान्त्या, नवनीतं हैयङ्गव न तस्योत्तमा या भावना तामन्वगावनुययौ । पक्षे दध्यपि नवनीतभावमनुगच्छति । पुनः कथम्भूतम्-अमृतमिव स्थितिर्यस्याः सा, अतिशयेन गौमङ्गलगीतादिवाणी तयाऽवृतेः समावृतत्वाद् राजसदनस्य । गोकुलपक्षे-अमृतरूपस्य दुग्धस्य स्थितिर्यासु ताः प्रशस्ता गाव इति गोतमास्ताभिरावृतेः वेष्टितत्वाद् राजसदनं गोकुलस्थानं सुरभिस्थानमिव राजते स्म इति श्लेषानुप्राणितोत्प्रेक्षालङ्कारः ॥ १५ ॥
सघनं घनमेतदास्वनत् सुषिरं चाशु शिरोऽकरोत्स्वनम् ॥ स ततेन ततः कृतो ध्वनिः सममानद्धममानमध्वनीत् ॥ १६ ॥ सघनमिति । वाद्यभेदाश्चत्वार इत्यमरकोशानुसारं तत्र घन-सुषिर-तत-आनद्धरूपाणि चतुर्विधवाद्यान्यवाद्यन्त इत्याह-तत्र राजप्रासादे घनमेतन्नामकं वाद्यं सघनर्मातगम्भीरध्वनिमास्वनत् अशब्दायत । सुषिरमाशु शिरःस्वनमत्युच्चध्वनिमुच्चचार । ततेन वाद्येन ततः परिव्याप्तो ध्वनिः कृतः । आनद्धाख्यं वाद्यं समं तुल्यरूपेण अमानमपरिमितमध्वनीद् दध्वान । अनेकक्रियाणां समुच्चयात् समुच्चयालङ्कृतिः ॥ १६ ॥
अन्वय : इदं मृदुमोदमहोदधिश्रिया नवनीतोत्तमभावनाम् अन्वगात् इदम् अमतस्थितिगोतमावृतेः सुरभिस्थानम् ( इव ) राजते स्म ।
अर्थ : यह राजभवन मधुर हर्षरूप महासागरकी कान्तिसे मक्खनके उत्तमभावको प्राप्त हो गया । अमृततुल्य मङ्गलगीतादि वाणियोंसे युक्त होनेके कारण गोकुलकी तरह सुशोभित हो रहा था । गोकुल में भी सुन्दर दधिमक्खन तथा दूध देनेवाली गायें होती ही है ॥ १५ ॥
अन्वय : घनम् एतत् सघनम् आस्वनत् सुषिरं च आशु शिरःस्वनम् अकरोत् । ततः ततेन सः ध्वनिः कृतः । आनद्धं समम् अमानम् अध्वनीत् ।
अर्थ : घन नामक वाद्य ( बाजा ) जोरसे बजने लगा। सुषिर नामक वाद्यने भी बड़े वेग से शब्द किया। अनन्तर तत-वाद्य ध्वनि करने लगा तथा साथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org