SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ जयोदय-महाकाव्यम् [ ४३ महाविकाशेति। कृतिनो बुद्धिमतो राज्ञः शत्रुश्च शश्वत् सततमेव समान. स्तुल्यधर्मा बभूव, यतो महाविकासस्य परमोत्कर्षस्य स्थितिमत् सत्तावद् विधानं विधिर्यस्य सः । पक्षे महान्तश्च तेऽवयोऽजातनयाश्च काशाश्चे तेषां स्थितिमद्विधानं यस्य सः । दानस्य त्यागस्य वारिणा जलेन सहितः सदानवारिस्तत्त्वम्, अभ्यागतेभ्योऽतिथिभ्यो दानार्थ सङ्कल्पकारिजलयुक्तत्वं दधानः । पक्षे सदा सर्वदेव नवारित्वं नित्यनूतनशत्रुत्वं दधानः । सुरभिः शोभमाना असाधारणा अनन्यभवा शक्तिः सामर्थ्य तत्तानो राजा । पक्षे सुलभ्या सुगमा, अत एव साधारणा शक्तिस्तत्तानः, स्वल्पशक्तियुक्त इत्यहो आश्चर्यम् ॥ ४२ ॥ युगादिभर्तुः सदसः सदस्य इत्यस्मदानन्दगिरां समस्यः । हंसः स्ववंशोरुसरोवरस्य श्रीमानभूच्छीसुहृदां वयस्यः ॥४३॥ युगादिभर्तुरिति। युगादिभर्तुः श्रीऋषभनाथतीर्थङ्करस्य सदसः सभायाः सदस्यः । स्ववंशः कुलमेव ऊरुसरोवरो बृहत्तडागस्तस्य हंसः, शोभाकारकत्वात् । श्रीसुहृदां सज्जनानां वयस्यः सखा। इत्यस्मादेव कारणात् स श्रीमान् अस्मदानन्दगिरामस्माकं प्रसन्नवाचां सदस्यो विषयो बभूव ॥ ४३ ॥ अन्वय : अहो कृतिनः शत्रुः च शश्वत् समानः, यतः ( सः ) महाविकाशस्थितिमद्विधानः सदानवारित्वं दधानः सुरम्यसाधारणशक्तितानः ( अस्तिः )। अर्थ : आश्चर्य है कि जयकुमारका तो सारा विधान विपुल विकाशवाली स्थितिसे युक्त था । वह हाथमें दानार्थ संकल्पका जल रखता था अर्थात् निरन्तर दान देता था और देवताओंको भयभीत कर देनेवाली असाधारण शक्ति भी धारण किये हुए था। किन्तु उसका शत्रु भी निरन्तर उसीके समान था, क्योंकि वह भी जहाँ बहुतसे भेंड़े और काश आदि होते हैं उस वन में रहता था। सदैव नये-नये वैरी बनाता था, और वह सुलभ साधारण-सी शक्तिवाला था ॥ ४२ ॥ अन्वय : श्रीमान् युगादिभर्तुः सदसः सदस्यः स्ववंशोरुसरोवरस्य हंसः श्रीसुहृदां वयस्यः अभूत् इति अस्मदानन्दगिरां समस्यः । ___ अर्थः वह श्रीमान् जयकुमार भगवान् ऋषभदेवको सभाका एक प्रसिद्ध सदस्य और सहृदय लोगोंका वयस्य ( सखा) एवं अपने वंशरूपी विशाल सरोवरका हंस था। इसलिए हमारी प्रसन्न वाणीका विषय है ।। ४३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy