________________
दशमः सर्गः अवरोधमिति। सोऽकम्पनस्तु अवरोधमन्तःपुरमित: परमवदत्-अयि दयिते, स्वयमाप्तनयं प्राप्तराजनीति, रुचां कान्तीनामयं स्थानमुज्ज्वलं निर्मलमन्तरमन्तःकरण यस्य तं, सोदयं विजयसम्पन्नं जयं जयकुमारमोक्षतामिति ॥ ३ ॥ चतुराः प्रचरन्तु भो श्रिया प्रचुराः स्त्रीसमयप्रियाः क्रियाः । ग्रहणग्रहभङ्गलोचिता वयमातन्म पुनः श्रुताश्रिताः ॥४॥
चतुरा इति । भो या याऽन्तःपुरे चतुराः स्त्रियस्ता. स्त्रीसमयप्रियाः श्रिया शोमया प्रचुराः पूर्णाः क्रिया मङ्गलगान-चतुष्कमण्डलपूरणादिकाः प्रचरन्तु । वयं पुनर्ग्रहणग्रहस्य पाणिग्रहणस्य मङ्गलस्योचिताः श्रुताश्रिताः शास्त्रोक्ताः क्रिया आतन्म. विदध्म इत्यर्थः ॥४॥ समयात् स महायशाः स्थितिं करसंयोजनकालिकीमिति । उपयुज्य पुन पासनं मुनिरन्तःपुरतो यथा वनम् ॥५॥
समयादिति । महद् यशो यस्य स महायशा विपुलकीतिः सोऽकम्पन इत्येवं करसंयोजनकालिकों पाणिग्रहणसमयोचितां स्थिति मर्यादा मुपयुज्य विधाय, अन्तःपुरतः पुनन पासनं समयाद् प्राप्तवान् । यथा मुनिरन्तःपुरतो वनं प्रतियातीत्युपमालङ्कारः ॥ ५॥
अर्थ : इसके बाद वे महाराज अकम्पन अन्तःपुरमें जा अपनी महिषीसे बोले कि प्रिये ! स्वयम् राजनीतिज्ञ, सौन्दर्यके एकमात्र अधिष्ठान, निर्मल अन्तःकरणवाले तथा विजयी जयकुमारको तो देखो ॥ ३ ॥
अन्वय : भोः ( याः अन्तपुरे ) चतुराः ( स्त्रियः ताः ) स्त्रीसमयप्रियाः श्रिया प्रचुराः क्रियाः प्रचरन्तु । वयं पुनः ग्रहणग्रहमङ्गलोचिताः श्रुताश्रिताः ( क्रियाः ) आतन्म ।
अर्थ : अरी ! अन्तःपुरमें जो चतुर स्त्रियाँ हैं वे स्त्रियोंके प्रिय, सौन्दर्ययुक्त गीत आदि क्रियाओंको प्रारम्भ कर दें । इधर हम लोग विवाहसम्बन्धी मङ्गलके योग्य, शास्त्रोक्त क्रियाओंकी सम्पन्न कर रहे हैं ।। ४ ॥
अन्वय : महायशाः सः इति करसंयोजनकालिकी स्थितिम् उपयुज्य मुनिः वनं यथ अन्तःपुरतः पुनः नृपासनं समयात् ।
अर्थ : इस तरह विवाहकालिक समस्त कृत्य सम्पन्न कर महान् यशवाले महाराज अकम्पन, वनको मुनिकी तरह, अन्तःपुरसे पुनः लौटकर राज्यसिंहा- सनपर आ बैठ गये ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org