SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ९५] नवमः सर्गः ४६१ उपेत्य तेन स्वकार्य साधयति तथैव स समुद्रात् मुद्राधिकारिणश्चक्रवर्तिनोऽभ्रान्तरं भ्रमरहितं हारि मनोहरं वचनसमूहं स्वघटे निजहृदये प्राप्य तेन तत्र गत्वा स्वस्वामिनः कर्णदेशमपूरयत्; तद्वचनसमूह स्वामिनमश्रावयदित्यर्थः ॥ ९४ ॥ भर्तु श्चित्तमवेत्य सुन्दरतमं काशीविशामीश्वरो रङ्गतुङ्गतरङ्ग-वारिरचिता-ऽम्भोराशितुल्यस्तवः । तत्रासीच्छशलाञ्छनस्य रसनात् प्रारब्धपूर्णात्मनो नर्मारम्भविचारणे तत इतो लक्ष्यं बबन्धात्मनः ॥ ९५ ॥ भर्तुरिति । काशीविशामीश्वरः काशीपतिरकम्पनो भर्तुः स्वामिनो भरतचक्रवतिनश्चित्तमवेत्य स्वानुकूलं प्रसन्नमभिज्ञाय, तत्र शशलाञ्छनस्य चन्द्रमसो रसनादवलोकनाद् रङ्गन्तः समुच्छलन्तो ये तुङ्गा उन्नतास्तरङ्गा वीचयो यस्यैवंभूतं यद्वारि जलं तेन रचितः शोभितो योऽम्भसा राशिः समुद्रस्तेन तुल्यस्तवः प्रशंसा हों वा यस्य तथाभूतः सन्, प्रारब्धेन सुलोचनाविवाहकार्येण पूर्णस्यात्मनः स्वस्य नारम्भस्य विवाहसम्बन्धिशेषकौतुकचिन्तने ततस्तदनन्तरमितो लक्ष्यं बबन्ध समुद्यतोऽभूदित्यर्थः । इदं पद्यं भरतरवननाम चक्रबन्धप्रयोजकं सम्पद्यते ॥ ९५॥ श्रीमान श्रेष्ठिचतुर्भुजः स सुषुवे भूरामरोपाह्वयं वाणीभूषणवणिनं घृतवरीदेवी च यं धीचयम् । तेनास्मिन् रचिते जयोदयमहाकाव्ये मनोहारिणि सर्गोऽयं नवमः सुदृक्परिणयप्रख्यः समाप्तिं गतः ।। ९ ।। ॥ इति जयोदयमहाकाव्ये नवमः सर्गः ॥ जाय, वैसे ही मुद्राओंके अधिकारी चक्रवर्ती द्वारा कथित भ्रमरहित मनोहर वचन-समूहको अपने अंतरमें धारणकर वह अत्यन्त क्षिप्रगामी दूत अपने स्वामीके पास पहुँचा और उसने उसे उनके कानोंमें उड़ेल दिया ॥ ९४॥ अन्वय : काशीविशाम् ईश्वरः भर्तुः चित्तं सुन्दरतमम् अवेत्य तत्र प्रारब्धपूर्णात्मन; शशलाञ्छनस्य रसनात् रङ्गत्तुङ्गतरङ्गवारिरचिताम्भोराशितुल्यस्तवः आसीत् । ततः इतः नारम्भविचारणे आत्मनः लक्ष्यं बबन्ध ।। ____अर्थ : काशीदेशके स्वामी महाराज अकम्पनने तो अपने स्वामी भरत चक्रवर्तीके मनको अपने अनुकूल समझकर चन्द्रमाको देखनेसे उमड़ते समुद्रके समान प्रसन्नता प्रकट की। उसके बाद वह प्रारम्भ किये अपने कार्यमें जुट गया, अर्थात् सुलोचनाके विवाहके शेष समारोहको सम्पन्न करनेके विषयमें विचार करने लगा। यह भरतरवन नामक चक्रबन्ध है ।। ९५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy