SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ४५६ जयोदय-महाकाव्यम् [८१-८३ अहमहो हृदयाश्रयवत्प्रजः स्वजनवैरकरः पुनरङ्गजः। भवति दीपकतोऽञ्जनवत् कृतिर्न नियमा खलु कार्यकपद्धतिः ॥ ८१ ॥ ___ अहमिति । अहो इत्याश्चर्ये, अहं तु हृदयमाश्रयो यस्याः सा हृदयाश्रयवती प्रजा यस्य स स्वहृदयस्थितलोकः, अस्मीति शेषः । पुनः किन्तु ममाङ्गजः सुतः स्वजनेषु वैरं करोतीति स्वजनवैरकर आत्मीयजनशत्रुत्वविधायको जात इत्याश्चर्यम् । तदेव समर्थयति-दीपकत: प्रदीपाद् अञ्जनवत् कृतिः कार्य भवति । अतः कार्यकपद्धतिः कार्यकारणमार्गः नियमा नियतपरिणामा नास्तीत्यर्थः । अर्थान्तरन्यासः ॥ ८१ ॥ वृषधरेषु महानृषभो गणी यदिव चक्रधरेषु सतामृणी । जयपितृव्यजनः श्रणनेऽनणी सुनयनाजनकः प्रकृतेऽग्रणीः ॥ ८२ ॥ वृषधरेष्विति । यदिव यथा वृषधरेषु तीर्थङ्करेषु महान् सर्वश्रेष्ठ ऋषभो गण्यस्ति, चक्रधरेषु महान् सतामणी अहमस्मि, तथैव श्रणने दानेऽनृणी जयपितृव्यजन: श्रेयांसकुमारोऽस्ति। एवमेव प्रकृते स्वयंवरेऽग्रणीः अग्रगण्यः सुनयनाजनकोऽकम्पनोऽस्तीत्यर्थः ॥ ८२॥ सुमुख मर्त्यशिरोमणिनाऽधुना सुगुणवंशवयोगुरुणाऽमुना । बहुकृतं प्रकृतं गुणराशिना पुरुनिभेन घरातलवासिनाम् ।। ८३ ॥ ___ अन्वय : अहो अहं ( तु ) हृदयाश्रयवत्प्रजः, पुनः अङ्गजः स्वजनवैरकरः । दीपकतः अजनवत् कृतिः । कार्यकपद्धतिः नियमा न खलु । अर्थ : ( चक्रवर्ती बोले :) आश्चर्य है कि मैं तो प्रजाको हृदयमें स्थान देता हूँ और यह मेरा पुत्र होकर भी अपने कुटुम्बियोंसे ही वैर-विरोध करनेवाला हो गया ! यह ऐसी ही बात हुई जैसे दीपकसे कज्जल । अतः कारणके अनुसार ही कार्य हुआ करता है, ऐसा सर्वथा ऐकान्तिक नियम नहीं है ।। ८१ ॥ ____ अन्वय : यद् इव वृषधरेषु महान् ऋषभः गणी, चक्रधरेषु महान् सताम् ऋणी ( अहम्, तथैव ) श्रणने अनृणी जयपितृव्यजनः प्रकृते । अग्रणीः सुनयनाजनकः । अर्थ : हे सुमुख ! जैसे तीर्थंकरोंमें शिरोमणि भगवान् ऋषभदेव हैं, वैसे ही चक्रवर्तियोंमें महान् मैं सत्पुरुषोंका ऋणो हूँ। दान देने में जयकुमारका चाचा श्रेयांसकुमार जैसा आदरणीय है, वैसे ही प्रकृतकार्य स्वयंवरमें सुलोचनाका पिता अकम्पन अग्रणी है ॥ ८२ ॥ अन्वय : सुमुख ! अधुना सुगुणवंशवयोगुरुणा मर्त्यशिरोमणिना धरातलवासिनां पुरुनिभेन गुणराशिना अमुना ( यत् ) प्रकृतं ( तद् ) बहु कृतम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy