________________
४५५
७९-८० ]
नवमः सर्गः जयकुमारमुपेत्य सुलक्षणा सुदृगतः प्रतिभाति विचक्षणा। मम महीवलयेपि वदापरः सपदि तत्सदृशः कतमो नरः ॥ ७९ ॥
जयेति । हे दूत, सुदृक् सुलोचना, जयकुमारमुपेत्य प्राप्य सुलक्षणा शोभनसौभाग्यवती स्यादिति शेषः । अत: सा तादृगुत्तमानुकूलवरचयने विचक्षणा बुद्धिमती प्रतिभाति ज्ञायते त्वमेव वद, मम महीवलये पृथ्वीमण्डले, तत्सदृशोऽपरः कतमो नरः स्यात् न कोऽपीत्यर्थः ॥ ७९ ॥ रवियशा दुरितेन मुरीकृतः स भवता बत शीघ्रमुरीकृतः । सदरिरप्यसदादरिवन्नरो भवतु सम्भवतुष्टिमतां परः ॥ ८० ।।
रवियशा इति । रवियशा अर्ककोति: दुरितेन दुर्भाग्येण मुरीकृतः, अमुरो मुरः सम्पद्यमानः कृत इति मुरोकृतो मुराख्यराक्षससदृशीकृतः सन् जयप्रतिवावमकरोत् । स एव भवता भवत्स्वामिना शीघ्रमुरीकृतः, बतेति खेदे । सम्भवन्ती तुष्टिरस्ति येषां ते तेषां सन्तोषिणां सज्जनानां संश्चासौ अरिः शोभनशत्रुः नरः, असंश्चासौ आदरोति, असदादरी, तेन तुल्यं तद्वत् परो भवतु ? न भवत्वित्यर्थः । सन्तोषिणः स्व-परयोः समभावा भवन्तीत्यर्थः ।। ८० ॥
अन्वय : (दूत ! ) सुदृग् जयकुमारम् उपेत्य सुलक्षणा ( स्यात् ) । अतः ( सा) विचक्षणा प्रतिभाति । सपदि मम महीवलये अपि तत्सदृशः कतमः नरः ( इति त्वम् एव ) वद ।
अर्थ : ( महाराज भरत बोले:) हे दूत ! तुम ही मुझे बताओ कि जयकुमारके समान मेरे इस भूमण्डलपर कौन है ? अतः सुलोचनाने जयकुमारको जो वरा, तो निश्चय ही वह सौभाग्यशालिनी होगी । वह अत्यन्त विचक्षणा, बुद्धिमती है उसने यह बहुत ही अच्छा काम किया है ।। ७९ ।।।
अन्वय : रवियशाः दुरितेन मुरीकृतः । सः एव भवता उरीकृतः बत। सम्भवतुष्टिमतां सदरिः अपि नरः असदादरिवत् परः भवतु ।।
अर्थ : अर्ककीर्तिने जो जयकुमारका प्रतिवाद किया, वह मुरनामक राक्षसका-सा काम किया। फिर भी आपके महाराजने उसे स्वीकार किया, यह बड़े खेदकी बात है। किन्तु महाराज तो महाराज हैं, संतोषी हैं। संतोषी लोग तो शत्रु और मित्रको समानभावसे हो मानते हैं ।। ८० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org