SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ६०-६२ ] नवमः सर्गः मम मनोरथकल्पलताफलं वदति शुक्तिजलक्ष्म स वोपलम् । समभिपश्य नृपस्य मनीषितं नृवर साधय तस्य मयीहितम् ।। ६० ।। ममेति । हे नृवर हे मनुष्योत्तम, स नृपो मम मनोरथ एव कल्पलता तस्याः फलमिव मम मनोरथं कांक्षितं शुक्तिजलक्ष्म शुक्त र्जातं शुक्तिजं मौक्तिकं तस्य लक्ष्मास्यास्तीति शुक्ति लक्ष्म मौतिकरूपं वदति, अथवा उपलं पाषाणरूपं वदति, इति नृपस्य मनीषितं निश्चितं समभिपश्य, तस्य चेष्टितं मयोहितं मदनुकूलं साधय ॥ ६० ॥ ४४७ रविपराजयतः स रुषः स्थलं यदि तदा भुवि नः क्व कलादलम् । मकरतोsaraस्य सरस्वति भवितुमर्हति नासुमतो गतिः ।। ६१ ।। रविपराजयत इति । यदि स रविपराजयतो रुषः क्रोधस्य स्थलं क्रुद्धो भवेत् तथा नोऽस्माकं भुवि कलादलं गुणसमूहोपयोगः क्व कुतः स्यादित्यर्थः । मकरतो नक्रादवरतस्य विरतस्य सरस्वति सागरे कथं गतिनिर्वाहो भवितुमर्हति न भवतीत्यर्थः । अर्थान्तरन्यासः ॥ ६१ ॥ सफलयन्नमनेन निजं तदा तरुरिवोत्तम पत्रकसम्पदा । इति स लेखहरः समुपेत्य ना विनतवागभवत् प्रभवेऽमनाक् ।। ६२ ।। सफलेति । इति स लेखहरो दूत उत्तमपत्रकसंपदा श्रेष्ठदलसम्पत्या उपलक्षितस्तर अन्वय : नुवर ! सः मम मनोरथकल्पलताफलं शुक्तिजलक्ष्म वदति, वा उपलं वदति, ( इति ) नृपस्य मनीषितं समभिपश्य । तस्य मयि ईहितं ( च साधय । अर्थ : हे नृवर ! पहले उनके मनकी परीक्षा करो कि वे चक्रवर्ती मेरे मनोरथ रूपी कल्पलताके फलरूप इस कार्यको मोती बताते हैं या पत्थर, अर्थात् इसे उचित मानते या अनुचित ? बादमें उनकी चेष्टाओंको, यदि वे मेरे प्रतिकूल हों तो, अनुकूल बना दो ॥ ६० ॥ अन्वय : यदि सः रविपराजयतः रुषः स्थलम् तदा नः भुवि क्व कलादलम् ? सरस्वति मकरतः अवरतस्य असुमतः गतिः भवितुं न अर्हति । अर्थ : कारण, यदि अर्ककीर्तिकी पराजयसे वे क्रुद्ध हो गये हों तो उस हालत में हम लोगों के गुणोंका मूल्य ही क्या ? तब हमारे लिए गुजारा कहाँ ? समुद्र में रहकर मगर से बैर करनेवाला व्यक्ति क्या कभी अपना निर्वाह कर सकता है ? ॥ ६१ ॥ अन्वय : इति सः लेखहरः ना उत्तमपत्रकसम्पदा तरुः इव समुपेत्य तदा नमनेन निजं सफलयन् प्रभवे अमनाक् विनतवाक् अभवत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy