________________
४४६ जयोदय-महाकाव्यम्
[ ५८-५९ सुकार्यमधारि निर्धारितं खलु निश्चयेन । वृद्धता क्रमविचारकरी खलु भवति । अर्थान्तरन्यासः ।। ५७ ॥ हृदयवद् गुणदोषविचारकं प्रवरवद्विपदां विनिवारकम् । सुमुखनाम चरं निदिदेश स भुवि सतां सहजा हि दिशा दृशः ॥५८॥
हृदयेति । सोऽकम्पनभूपो हृदयेन तुल्यं हृदयवत्, गुणाश्च दोषाश्च तेषां विचारकस्तं तथा प्रवरवद् भाग्यवद्विपदां विनिवारक परिहारकं सुमुखनामकं चरं दूतं निदिदेशाविष्टवान् । हि यस्मात् कारणाद् भुवि सतां दृशो दृष्टेदिशा सहजा स्वाभाविकी सदाऽनुकूला भवति । अर्थान्तरन्यासः ॥ ५८॥ निगद नस्तु नमोऽर्कयशःपितुस्त्वरितमन्तिकमेत्य महीशितुः । भवितुमर्हति भूवलयेऽपरः सुमुख कार्यचणः कतमो नरः ॥ ५९॥
निगदेति । हे सुमुख, त्वरितमहं महीशितुर्नृपस्य अर्कयशःपितुरन्तिकमेत्य नोऽस्माकं नमः प्रति निगद । अस्मिन् भूवलये परो द्वितीयः कतमो नरः कार्ये वित्तः कार्य चणा कार्यसाधने प्रसिद्धः कार्यचणः, कार्यसम्पादनप्रसिद्धः कतमो मनुष्यः कर्तव्यपालको भवति ? न कोऽपीति, भवान् एव कार्य सम्पादयेत्यर्थः ॥ ५९ ॥
माना। निश्चय ही वृद्धता सदैव क्रमिक कर्तव्यताका उचित विचार किया करती है ॥ ५७॥
अन्वय : सः हृदयवत् गुणदोषविचारकं प्रवरवत् विपदा विनिवारकं सुमुखनाम चरं निदिदेश । हि भुवि सतां दृशः दिशा सहजा । - अर्थ : फिर महाराज अकम्पनने चक्रवर्तीके पास सुमुख नामक दूतको भेजा जो हृदयकी तरह गुण-दोषका विचारक एवं भाग्य यानी भाग्यवान् अथवा वीर पुरुषके समान आगत विपत्तियोंका निराकरण करनेवाला था । ठीक है, सन्तोंकी दष्टिकी दिशा स्वभावतः सदैव अनुकूल ही हुआ करती है ॥ ५८ ॥
अन्वय : सुमुख त्वं ( तु ) त्वरितं महीशितुः अर्कयशःपितुः अन्तिकम् एत्य नः नमः निगद । भूवलये कतमः अपरः नरः कार्यचणः भवितुम् अर्हति ।
अर्थ : महाराजने उससे कहा कि हे सुमुख । तुम अर्ककीर्तिके पिता चक्रवर्तीके पास जाओ और उनसे मेरा नमस्कार कहो। इस भूमण्डलपर तुम्हारे समान कार्य साधनमें चतुर दूसरा कौन पुरुष हो सकता है ? ॥ ५९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org