________________
४३०
जयोदय-महाकाव्यम्
[ १९-२०
ईदृशी, अनुचरस्य अङ्गाद् भवति जायते इत्यङ्गभूस्तस्मिन् जयकुमारे न स्फुरति न प्रभवति, किन्तु कुविधेः पथोन्मार्गेण कथमेवमन्यथा प्रथितवानिति च मयाऽनुमितं ज्ञातं, तत्कथनेनालम् ॥ १८ ॥
मयि दयिन्नयि चेत्वदनुग्रहः शृणु महीप हृदीयदहो रहः । त्वरितमक्षलतामुररीकुरु दिशतु भद्रमिदं भगवान् पुरुः || १९ ॥
मोति । अयि दयिन्, चेद्यदि मयि त्वदनुग्रहो वर्तते, तहि शृणु, अहो मदीये हृवि चित्त इयदेतावद् रहो गुह्यं वर्तते यन्मे अक्षलतां नाम तनयां त्वरितमेव उरीरकुरु । भगवान् पुरुवृषभ इदं भद्रं दिशतु ॥ १९ ॥
हृदि तमोपगमात् प्रतिभाऽविशदिति तदालपितेन जयद्विषः । यदिव कोकरुतेन दिनश्रियः समुदयः कृतनक्तलयक्रियः ॥ २० ॥
हृदति । इति तस्य अकम्पनस्य आलपितेन कथनेन जयद्विषोऽर्ककीर्तेः हृदि चित्त तमसो दुर्विचारस्यापगमाद् विनाशात् प्रतिभा सद्बुद्धिरविशत् समुदियाय, यदिव यथा कोकस्य चक्रवाकस्य रुतेन विलपनशब्देन कृता नक्तस्य रात्रेर्लयक्रिया विनाशो येन स दिनश्रियः सम्यगुदयः प्राकट्यं स्यात्तथा । उपमा ।। २० ।।
अर्थ : हे वशिन् ! मैं यह भी जानता हूँ कि आप हमारे राजाके पुत्र है, अतः आपका बरताव हमारे लिए ऐसा नहीं हो सकता । किन्तु इस प्रकारकी अन्यथाप्रवृत्ति जो आपकी हमारे प्रति हुई, उसमें आपका दोष नहीं, यह मैं जान गया हूँ । उसे कहनेकी आवश्यकता नहीं । यह सब उस दंभी दुर्मर्षणका ही कार्य है, यह भाव है ।। १८ ।।
अन्वय : अयि दयिन् मयि त्वदनुग्रहः चेत् ( तदा) अहो हृदि इयत् रहः, तत् शृणु ( यत् ) अक्षलतां त्वरितम् उररीकुरु । भगवान् पुरुः इदं भद्रं दिशतु ।
अर्थ : हे दयालो ! यदि आपका हमपर अनुग्रह : है तो मेरे मनकी गुप्त बात सुनें । मैं चाहता हूँ कि मेरी पुत्री अक्षमालाको आप स्वीकार कीजिये । भगवान् ऋषभदेव यह कल्याण संपन्न कर दें ।। १९ ।।
अन्वय : इति तदालपितेन जयद्विषः हृदि तमोपगमात् प्रतिभा अविशत् यदिव कोकरुतेन कृतनक्तलयक्रियः दिनश्रियः समुदय: ( भवति ) ।
अर्थ : इस प्रकार अकम्पनके कहनेपर जयकुमारके विरोधी अर्ककीर्तिका दूर हो उसके मन में स्फूर्ति आ गयी, जैसे चकवे के विलापसे रात्रि चली जाती और दिनश्रीका समुदय हो जाता है || २० ||
रोष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org