SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ११-१३] नवमः सर्गः ४२७ युवनृपात्र कृपा अपमाणके भवतु मय्युपयुक्तकृपाणके। भुवि भवान् विभविष्यति भो भवान् विपदगाः पदगारतु वयं नवाः॥ ११ ॥ युवनृपेति । हे युवनूप, उपयुक्तः स्वीकृतः कृपाण एव कृपाणकी येन तस्मिन् मयि भवतो विपक्षतां गते, अत एव अपमाणके लज्जमाने पश्चात्तापयुतेऽत्र कृपा भवतु । भो भवान् भुवि भवानेव भविष्यति, वयं तु पुनः पवगाः । पद्भ्यां गमनशीला: सेवकारले विपदं विरुद्धभावं गच्छन्तीति विपदगा यतो नवा अशानिन इत्यर्थः । अनुप्रासः ॥ ११॥ यदपि चापलमाप ललाम ते जय इहास्तु स एव महामते । उरसि सन्निहतापि पयोऽर्पयत्यथ निजाय तुजे सुरभिः स्वयम् ॥ १२ ॥ यवंपीति है । ललाम नृपरत्न, जयकुमारो यत्ते तुभ्यं चापलमाप कृतवान्, हे महामते, स पुनरिह स एवास्तु, तद्विषये भवता किमपि नानुचिन्तनीयमित्यर्थः । यतः सुरभिर्गोररसि सनिहतापि ताडितापि सती निजाय तुजे वत्साव पय । एवाऽर्पयति । दृष्टान्तालङ्कारः ॥ १२॥ यदपि पातयतीति तुरङ्गमस्तरलतावशतो विचलत्क्रमः । तदपि हन्ति हयं किमुदारदृग भवति वृत्तमिदं च ततः सदृक् ॥ १३ ॥ यवपीति ।यवपि तरलतावशतः चाञ्चल्या विचलत् क्रमो यस्य स स्खलितचरण: सन् तुरङ्गमोऽश्ववारं पातयति, तथापि फिम् उवारदा बुद्धिमान् पुरुषो हयं तारयति ? न ताडयतीत्यर्थः । तथैवेवं वृत्तमपि तत्सदृशमेव भवतीत्यर्थः ॥ १३ ॥ __ अन्वय : हे युवनृप अत्र उपयुक्तकृपाणके अपमाणके मयि कृपा भवतु । भो भवान् भवान् एव भुवि भविष्यति । वयं तु नवाः पदगाः विपदगाः । अर्थ : हे युवराज ! मैंने आपपर खड्ग उठाया, अतएव मैं बहुत लज्जित हूँ। मुझपर आप कृपा करें; क्योंकि आप तो आप ही हैं। हम लोग आपके नवीन अबोध सेवक हैं, सो विपथगामी बन गये हैं ॥ ११ ॥ अन्वय : अथ ललाम जयः यदपि ते चापलं आप, महामते सः इह एव अस्तु । सुरभि: उरसि सन्निहता अपि निजाय तुजे स्वयं पयः अर्पयति । अर्थ : हे नृपरत्न ! आपके लिए जयकुमारने जो भी चपलता की, वह यही रहे । महामते! उसके विषयमें आप चिन्तान करे । दूध पीते समय बछड़ा गायकी छातीमें चोट मारता है, फिर भी गाय अप्रसन्न न होकर स्वयं उसे दूध ही पिलाती है ।। १२॥ ___ अन्वय : तरलतावशतः विचलत्क्रमः तुरङ्गमः यदपि पातयति इति, तदपि उदारदृक् हयः किं हन्ति ? इदं च वृत्तं ततः सदृक् भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy