________________
६-८ ]
नवमः सर्गः
मम पराजयकृत्तु पुरा रणं किमधुनाऽऽद्रियते मृतमारणम् । किमित आगत आगतदुर्विधेर्मम समीपमहो सुमहोनिधेः ॥ ६ ॥
ममेति । अहो आश्चर्ये सुमहः सुष्ठु तेज एव निधिर्यस्य सः, तस्य किन्तु आगतः सम्प्राप्तो दुविधिर्भाग्यं यस्य तस्य मम समीपमितोऽयमकम्पनः किमागतोऽस्ति । मम पराजयकृत पुरा रणमेवाभूत् । पुनरधुना मृतस्य मारणं किमाद्रियते, एवम् कंकीर्तिरचिन्तयत् ॥ ६ ॥
४२५
किमधुना न चरन्त्यसवश्चराः स्वयमिताः किमु कीलनमित्वराः । रुदति मे हृदयं सदयं भवतुदति चात्मविघातकथाश्रवः ।। ७ ।।
किमधुनेति । चराश्चञ्चला इत्वरा गमनशीला अमी असवः प्राणा अधुना कि न चरन्ति निर्गच्छन्ति । किमु स्वयमकारणमेव कीलनं स्थेयंमिता इति सदयं सकरुणमिवं मे हृदयं चित्तं रुवति विलपति । आत्मनो विघातस्तिरस्कारस्तस्य कथाया अभवः श्रवणं क्लेशो वा मां पीडयति ॥ ७ ॥
निजनिगर्हणनीरनिघाविति निपतते इततेजस आश्रितः । गुणवतीव ततिर्वचसां नराधिपमुखादियमाविरभूत्तराम् ॥ ८ ॥
निजेति । इति उपर्युक्तप्रकारेण निजस्य निगर्हणं निन्दनमेव नीरनिधिस्तस्मिन् निपतते निमज्जते, हतं तेजो यस्य तस्मै, अर्ककीर्तये, आश्रितिरवलम्बनरूपा नराधिपस्य अकम्पनस्य मुखादियं गुणवती गुणयुक्ता वचसां ततिर्वचनावली ततीव रज्जूपमा आविरभूत् प्रकटीभूतेत्यर्थः । उपमालङ्कारः ॥ ८ ॥
अन्वय : अहो सुमहोनिधेः आगतदुर्विधेः मम इतः किम् आगतः । मम पराजयकृत् तु पुरा रणम् अभूत् । अधुना मृतमारणं किम् आद्रियते । चराः इत्वराः असवः अधुना किं न चरन्ति किम् स्वयं कीलनम् इता:, (इति) सदयं भवद् हृदयं रुदति, च आत्मविधातकथाश्रवः तुदति । इति निजविगर्हणनीरनिधौ निपतते हततेजसे इयत् आश्रितिः नराधिपमुखात् गुणवती वचसां ततिः इव आविरभूत्तराम् ।
अर्थ : अकम्पनको देखकर अकंकीर्ति सोचने लगा कि पहले जो युद्ध हुआ; उसमें मेरी हार ही हो गयी । अब यह फिर मुझ अभागेके पास आ रहा है तो क्या मरेको मारने के लिए आ रहा है ? ऐसी परिस्थिति में मेरे चर प्राण निकल क्यों नहीं जाते ? इस समय वे उलटे कीलित क्यों हो गये ? यह सोच-सोच मेरा हृदय रो रहा है । अपने आपकी निरादर - कथा मुझे पीड़ा दे रही है । इस प्रकार अपनी निन्दारूपी समुद्र में डूबे हतप्रभ उस अर्ककीर्ति के
लिए अकम्पन
५४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org