________________
४२४
जयोदय-महाकाव्यम्
[ ४-५
मुदे तस्य प्रीतये मेततिपक्षमालां नाम सुतां कन्यां झगिति वितरेयं प्रयच्छेयम् । अतो मस सम्मुदेऽपरा गतिर्नास्ति ॥ ३ ॥
परिभवोऽरिभवो हि सुदुःसह इति समेत्य स मेऽत्ययनं रहः । किमुपधामुपधास्यति नात्र वा किमिति कर्मणि तर्कणतोऽथवा ॥ ४ ॥ अनुभवन् विपदन्तकृदित्यदः प्रभृतिकं भृतकत्वगुणास्पदः । निकटकं कटकप्रतिघातिनः समभवद् भवगर्तनिपातिनः ।। ५ ।।
परिभव_इति । अरिभ्यो जातः परिभवस्तिरस्कारो हि दुःसहोऽसह्यो भवतीति सोsher: मेऽत्ययनं दुरुद्योगं रहोऽभ्यन्तरमेव समेत्य लब्ध्वा किमुपधां पीडां नोपधास्यति न स्वीकरिष्यति, अपि तु करिष्यत्येव । अत इति कर्मणि कर्तव्ये अथवा तर्कणत ऊहापोहतः fr फलं स्यात्, न किमपीत्यर्थः । अनुभवन्निति । इत्यदः प्रभृतिकमित्यादिकं विपवोऽन्तं करोति तदनुभवन् भृतकत्वगुणोऽनुचरस्वभाव एवास्पदं स्थानं यस्य सोऽनुचररूपतां वर्षावित्यर्थः । सोऽकम्पनः कटकस्य सेनायाः प्रतिघातोऽस्यास्तीति तस्य भगवतश्चिन्ता तत्र निपातोऽस्यास्तीति तस्य चिन्तालीनस्य अर्ककीर्तेनिकटकं समीपं समभवत् । अनुप्रासः ॥। ४-५ ।।
अन्वय : जगति राजतुजः प्रतियोगिता मे वर्त्मनि नगति । ( अत एव ) अद: मुदे मे अक्षति सुतां झग् इति संवितरेयम् । मम सम्मुदे अपरा गतिः नास्ति ।
अर्थ : इस जगत् में राजाके पुत्रके साथ शत्रुता हो जाना मेरे मार्ग में पर्वतके समान रुकावट डालनेवाला है । इसलिए इसमें शीघ्र ही उसकी प्रसन्नता के लिए मैं अपनी दूसरी कन्या अक्षमाला इसे दान कर दूँ । इसके सिवा मेरी प्रसन्नता, निराकुलताके लिए कोई दूसरी गति नहीं है ॥ ३ ॥
अन्वय : हि अरिभवः परिभवः सुदुःसहः इति समेत्य सः मे अत्ययनं रहः समेत्य किम् उपधां न उपधास्यति । अथवा कर्मणि तर्कणतः किम् ? इति अदः प्रभृतिकं विपदन्तकृत् अनुभवन् भृतकत्वगुणास्पदः भवगर्तनिपातिनः कटकप्रतिघातिनः निकटकं समभवत् ।
अर्थ : निश्चय ही अकीर्ति दुस्सह पराभव के विषय में नहीं सोचता होगा ? ( अर्थात् चिन्ता में पड़ा ही होगा ) । अथवा वितर्कणासे क्या लाभ ? इस प्रकार अपने आपपर आयी विपत्तिके बारेमें सोचता राजा अकम्पन, जो अर्ककीर्तिकी सेवकता स्वीकार किये हुए था, दुःखोंमें डालनेवाले तथा कटकका नाश करनेवाले अर्ककीर्ति के पास पहुँचा ।। ४-५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org