SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४२० जयोदय-महाकाव्यम् [९०-९१ सपदीति । हे भ्रातः सपदि साम्प्रतं विभातो जातः प्रभातकालः संवृत्तः, यतो भवभयस्य जननमरणभीतेः हरणी नाशयित्री विभा प्रभा मूतिर्यस्य स तस्य जन्ममृत्युभयनाशकतेजोमयस्वरूपस्य, विश्वपितुः, जिन एव सविता तस्य शिवसदनं कल्याणधामस्वरूपं मृतु मधुरं वदनमाननं ते स्पष्टं प्रतोयत इति शेष: । रूपकालङ्कारः ॥ ८९ ॥ गता निशाश्य दिशा उद्घाटिता भान्ति विपतनयनभूते । कोऽस्तु कौशिकादिह विद्वेषी परो नरो विशदीभूते ॥ ९० ॥ गतेति । हे विपूतनयनभूते, विशेषेण पूता पवित्रा, विपूता, नययोभूतिः नयनभूतिः, विपूता नयनभूतिर्यस्याः सा, तत्सम्बोधने हे निर्मलाक्षी, अधुना निशा गता व्यतीता, दिशा उद्घाटिता प्रकटीभूता भान्ति । इह अस्मिन् विशदीभूते प्रकाशमाने समये कौशिकात् उलूकात् परः अन्यः को नरो विद्वेषी विरोधकोऽस्तु ? न कोऽपोत्यर्थः ।। ९० ॥ मङ्गलमण्डलमस्तु समस्तं जिनदेवे स्वयमनुभूते । हीराया हि कुतः प्रतिपाद्याश्चिन्तामणौ लसति पते ॥ ९१ ॥ मङ्गलेति । जिनदेवेऽनुभूते सति समस्तं मङ्गलानां मण्डलं स्वयमस्तु भवेदित्यर्थः । सामान्यार्थ विशेषार्थेन समर्थयति-हि यस्मात्कारणात् पूते निर्मले चिन्तामणौ रत्नविशेषे लसति प्राप्ते सति होराया हीरकप्रभृतोनि रत्नान्तराणि कुतः किमर्थ प्रतिपाद्याः ? किमयं लब्धव्याः ? न लब्धच्या निष्प्रयोजकत्वादित्यर्थः । अर्थान्तरन्यासः ॥ ९१॥ अन्वय : भ्रातः सपदि विभातः जातः । ( यतः ) भवभयहरणविभामूर्तेः विश्वपितुः जिनसवितुः शिवसदनं मृदुवदनं ते स्पष्ट ( प्रतीयते )। अर्थ : हे भाई ! अब प्रभात हो गया। कारण, भवभयका नाश करनेवाली प्रभामूर्ति, विश्वके पिता जिन-सूर्यका मंगलधाम मधुर मुख तुम्हारे लिए स्पष्ट दिखायी दे रहा है ।। ८९ ॥ ___ अन्वय : विपूतनयनभूते निशा गता। अथ दिशाः उद्घाटिताः भान्ति। इह विशदीभूते कौशिकात् परः कः नरः विद्वेषी अस्तु । अर्थ : हे विशाल एवं निर्मल नयनोंवाली पुत्री ! सुनो, निशा बीत गयी । अब सभी दिशाएँ स्पष्ट सुशोभित दिखायी देने लगी हैं। ऐसे प्रकाशमान समयमें सिवा उल्लके और ऐसा कौन नर होगा जो प्रसन्न न होगा ॥९०॥ ... अन्वय : जिनदेवे अनुभूते समस्तं मङ्गलमण्डलं स्वयम् अस्तु । हि पूते चिन्तामणौ लसति हीराद्याः कुतः प्रतिपाद्याः । अर्थ : जिनदेवके दर्शन कर लेनेपर सब तरहके मंगल स्वयं सम्पन्न हो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy