SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ८८-८९ ] अष्टमः सर्गः विजेताऽभवत् । श्रीमतामहतां चरणारविन्दयोः कृपया प्रसादेन तवाभीष्टेन जातं जन्मलब्धम् । यद्वा तव अभीष्टमेव इनः सूर्यस्तस्य जन्म, अर्थात् प्रभातमेवेदम् । अतो हे मनीषिषु बुद्धिमत्स्वपि मानिनि सम्मानवति, मौनं मुधा व्यर्थम् । अतोऽधुना तन्मुञ्च त्यज, आत्मनो धाम स्थानं संबज चल, इत्थं तां सुलोचनां समुदीर्य तया सह धाम स्वस्थानं गतवान् । अनुप्रासालङ्कारः ॥ ८७ ॥ सकलः सकलज्ञमाप्तवान् अपि सम्प्रार्थयितुं जनः स वा । भगवान् भगवानभिष्ट तो विपदामप्युत सम्पदामुत ॥ ८८ ।। सकल इति । सोऽकम्पनो यथा सकलशं सर्वशं भगवन्तं सम्प्रार्थयितुमाप्तवान, प्रार्थयितुमारब्धवानित्यर्थः । तथा तत्रस्थः सकलोऽपि जन: सर्वज्ञं प्रार्थयितुमारब्धवान् । यतो यस्मात्कारणात् भगोऽस्यास्तीति भगवान्, ऐश्वर्यादिषट्कसम्पन्नः परमात्मा 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । वैराग्यस्थाथ मोक्षस्य षण्णां भग इतोरणम्' इति प्राचामुक्तिः। एवम्भूतो भगवान् अभिष्टितः सन्नेव विपदामुद्धारकः, उत वा सम्पदामैश्वर्याणां प्रतिष्ठापको भवतीति भावः । अनुप्रासालङ्कारः ॥ ८८॥ सपदि विभातो जातो भ्रातर्भवभयहरणविभामूर्तेः । शिवसदनं मृदु वदनं स्पष्ट विश्वपितुर्जिनसवितुस्ते ॥ ८९ ॥ विन्दकृपया तव अभीष्टेन जातम् । मनीषिमानिनि मुधा मौनं मुञ्च, आत्मनः धाम संव्रज, इत्थं तां समुदीर्य अकम्पनः तया साकं धाम गतवान् । अर्थ : हे पुत्रि ! भगवान् अर्हन्तदेवकी कृपासे तेरे मनचाहे वर, वीरशिरोमणि जयकमार विजयी हो गये । इसलिए अब हे बद्धिमानोंमें भी सम्मान पानेवाली पुत्री ! व्यर्थ का मौन छोड़ो और प्रसन्नतापूर्वक घर चलो, इस प्रकार कहकर महाराज अकम्पन उसे साथ लेकर घर चले गये ।। ८७ ॥ ___ अन्वय : सः वा सकलः जनः अपि संप्रार्थयितुं सकलज्ञम् आप्तवान् । (यतः) भगवान् अभिष्टुत: विपदाम् उत संपदाम् उत भगवान् । अर्थ : सभी लोग और वह महाराज अकम्पन भी भगवान्के पास जाकर उनकी स्तुति करने लगे। कारण भगवान् विपत्ति या सम्पत्तिमें भगवान् ही हैं। अर्थात् विपत्तिमें याद करनेपर वे उसका उद्धार करते और सम्पत्तिमें ऐश्वर्यप्रतिष्ठित कर देते हैं ।। ८८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy