SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ८४-८५ ] अष्टमः सर्गः अश्वसन्तं तु संस्कृत्य निःश्वसन्तमुपाचरत् । आगत्य सोमसत्पुत्रश्चकारानाथमात्मसात् ॥ ८४ ॥ प्राप्य, अश्वसन्तमिति । सोमस्य सत्पुत्रः शोभनात्मजो जयकुमारः आगत्य स्वाभिजनं अश्वसन्तं निरुद्धश्वास मर्ककीर्ति संस्कृत्य अन्नजलादिना स्नानादिना च संस्कृत्य निःश्वसन्तं श्वासोच्छ्वासयुक्तं विषण्णं तमुपाचरत् सेवितवान् । ततोऽनाथं स्वामिरहितं तमात्मसात् आत्मायतं चकार ॥ ८४ ॥ नीति नीतिविदो विदुः कुरुपतेः स्फीतिं तु शूरा नरा वीतिं गोचरवेदिनः सुसमये भाग्यप्रतीतिं प्रजाः । ४१७ नानारीतिरभूत्तमां मतिरिति श्रीजीतिहेतुं पुनः सार्हत्सद्गुणगीतिरेव सुदृशा क्लृप्ता प्रतीतिस्तु मे ।। ८५ ।। नीतिमिति । जयकुमारस्य श्रीजीतौ जये हेतुं नीतिविदो नीतिज्ञा जना नीति विदुविदन्ति । शूरा नराः स्फीति भुजबलाधिक्यं विदुः । गोचरचारिणो देवज्ञा वीर्ति देवं भाग्यं विदुः । प्रजा लोकाः सुसमयेऽस्मिन् भाग्यस्य प्रतीति विश्वासं विदुः । एवं नाना विविधप्रकारा रीतयो यस्यां सा मतिर्बुद्धिः अभूत्तमाम् अतिशयेनाभवत् । किन्तु मे प्रतीतिस्त्वियं वर्तते यत्सुदृशा सुलोचनया याऽहंतां सद्गुणानां गीतिः स्तुतिः कृता सैव जीतिहेतुरभूदिति । सानुप्रासः समुच्चयालङ्कारः ॥ ८५ ॥ अन्वय : अथ सोमसत्पुत्रः आगत्य अश्वसन्तं संस्कृत्य निःश्वसन्तम् उपाचरत्, अनाथम् (च ) आत्मसात् चकार । अर्थ : जयकुमार ने वापस आकर युद्धस्थल में श्वास ले रहे घायलोंको तो इलाज के लिए भेज दिया और जो मर चुके थे, उन अर्ककोर्ति आदिका दाहसंस्कारादि करा दिया तथा जो अनाथ थे, उन्हें सनाथ बना दिया, अर्थात् अपने आश्रय में ले लिया ॥ ८४ ॥ Jain Education International अन्वय : कुरुपतेः श्रीजीतिहेतुं नीतिविदः नीति शूराः नराः तु स्फीति गोचरवेदिनः वीति प्रजाः सुसमये भाग्यप्रतीति विदुः इति नानारीतिः मतिः अभूत्तमाम् । मे प्रतीतिः सुदृशा क्लृप्ता सा अर्हत्सद्गुणगीतिः एव । , अर्थ : कुरुपति जयकुमारकी जो विजय हुई, उसमें नीतिवान् तो उसकी कारण मानते थे कि वह अत्यन्त नीतिमान् है । जो शूर-वीर थे, वे उसके साहसको विजयका कारण समझते थे। जो ज्योतिषी थे, वे दैवको ही कारण मानते ५३ For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy