________________
४१६
जयोदय-महाकाव्यम्
[ ८२-८३
लब्धः स्वीकृतश्चासौ पतिस्तेन जयकुमारेण सम्प्रति नागपाशेन बद्धस्तथा रथे स्थापितो रयसात् स चक्रितुक् सार्वभौमपुत्रः सोऽशुभेन पापपूर्णेन तेन प्रसिद्धेन राहुणा भुक्तो गृहीतः सन्तमसारिः सूर्य एव शुशुभे रेजे । अनुप्रासानुप्राणित उपमालङ्कारः ॥ ८१ ॥ विषसादैव जयोऽस्मात् प्रससाद न जातु विजयतो यस्मात् । स्वास्थ्यं लभतां चित्तं ह्यादायायोग्यमिह च किमु वित्तम् ।। ८२ ।।
विषसादैवेति । जयो नाम कुमारश्च अस्माद्विजयतो विषसावैव विषावमेवाप, न तु जातुचिदपि प्रससाद आह्लादमासवान् । तदेतद्वृत्त ं कुत इति चेत् यस्माविह हि भूतलेऽयोग्यमनुचितं वित्तमादाय लब्ध्वा च चित्त ं मनः किमु स्वास्थ्यं लभताम् ? न लभताम् । होति निश्चये ॥ ८२ ॥
अर्कस्तुदर्कचिच्चितो जयश्च विजयान्वितः ।
जनोऽभिजनसम्प्राप्तो
वर्धमानाभिधानतः ॥ ८३ ॥
अर्क इति । तत्र परिणामे यत्रिष्यन्नं तदुच्यते--अकंश्चक्रवतिसुतस्तु उदकं भाविफलं fit स्यादित्येव अचिन्तयत् । उदर्कचिच्चितं मनो यस्य सोऽभूत् । किं स्यात् किं करिष्यामीति विचारमग्नो जातः । जयश्च विजयेनान्वितो विषाददायकजयेनान्वितः स्पष्टमेवासीत् । सर्वसाधारणश्च जनो वर्धमानस्य अर्हतोऽभिधानतस्तन्नामोच्चारणपूर्वकम् अभिनं स्वजन्मस्थानं सम्प्राप्तो गतवान् ॥ ८३ ॥
अर्थ : पश्चात् नागपाशमें बाँधकर जयकुमारने अर्ककीर्तिको अपने रथमें डाल दिया । उस समय वह ऐसा प्रतीत हो रहा था कि राहु द्वारा आक्रान्त सूर्य ही हो । जैसे नागपाश तो राहु हुआ और अर्ककीर्ति हुआ सूर्य ॥ ८१ ॥
अन्वय : जयः अस्मात् विजयतः विषसाद एव न जातु प्रससाद । यस्मात् इह हि च अयोग्यं वित्तम् आदाय चित्तं किमु स्वास्थ्यं लभताम् ।
अर्थ : इस प्रकार यद्यपि जयकुमारको विजय प्राप्त हुई, फिर भी उससे वह प्रसन्न न होकर अप्रसन्न ही हुआ । कारण अयोग्य धनको पाकर क्या कभी चित्त स्वस्थ्य, प्रसन्न हो सकता है ? ॥ ८२ ॥
अन्वय : अर्कः तु उदर्कचिञ्चितः, जय: च विजयान्वितः । ( किन्तु ) जनः वर्धमानाभिधानतः अभिजनसंप्राप्तः अभूत् ।
अर्थ : अर्ककीति तो भविष्यको चिन्ता करने लगा कि अब क्या करें ? और जयकुमारने सविषाद विजय प्राप्त कर ली । शेष सर्वसाधारण व्यक्ति भगवान् वर्धमानका नाम लेते हुए अपने-अपने स्थानपर चले गये || ८३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org