SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ७९-८१ ] अष्टमः सर्गः आसीत्कलासौ बलिसंप्रयोगेऽपि स्फीतिमाप्तो ग्रहणानुयोगे । जयश्रियो देवतया प्रणीत हेतिप्रसङ्गोऽथ जयस्य हीतः ॥ ७९ ॥ आसीदिति । देवतया प्रणीत हेतिप्रसङ्गः प्रदत्तशस्त्रसमागमः अथवा प्रणीताग्निसम्बन्धो यः किलासौ बलिभिर्बलशालिभिः सह । अथवा बले: पूजाद्रव्यस्य सम्प्रयोगे सम्पर्के सति स्फीति स्फूर्तिमासो भवति, सोऽथ जयस्य जयकुमारस्य हि नान्यस्य इतो जयश्रियो ग्रहणस्य प्राप्तेः करस्य वाऽनुयोगे सम्बन्ध एवासीत् बभूव । समासोक्त्यलङ्कारः ॥ ७९ ॥ सन्धानकाले तु शरस्य तस्य सम्मानितोऽभूत् स्वहृदा स वश्यः । जयेति वाचा स्तुत आशु देवैर्जगुस्तथा तं क्रियया परे वै ॥ ८० ॥ सन्धानेति । तस्य शरस्य सन्धानकाल एव तु स्वज्ञातिहृदा हृदयेन वश्यः स सोमसुतः सम्मानितोऽभूत् । अनेन बाणेनास्य अवश्यमेव विजयः स्यादित्याशासितोऽभूत् । तदा आशु शीघ्रमेव जयेति वाचा स्पष्टमेव स्तुतः सः । तथा परे शत्रवोऽपि तं तथा जयवन्तक्रियया आत्मसमर्पणात्मिकया चेष्टया वे निश्चयेन जगुः कथितवन्तः ॥ ८० ॥ रथसादथ सारसाक्षिलब्धपतिना सम्प्रति नागपाशबद्धः । शुशुभेऽप्यशुमेन चक्रितुक् तत्तमसा सन्तमसारिरेव भुक्तः ॥ ८१ ॥ रथसादिति । अथ सारसे कमले इवाक्षिणी यस्याः सा सारसाक्षी सुलोचना तथा अन्वय : अथ देवतया प्रणीत हेतिप्रसङ्गः किल असौ बलिसंप्रयोगे अपि स्फीतिम् आप्तः हि, इतः जयस्य जयश्रियः ग्रहणानुयोगे ( आसीत् ) । अथ : यह् बाण देवताओं द्वारा प्रदत्त और बलियों के संप्रयोगसे स्फूर्तिशाली हो गया था, अतः जयकुमारको विजय प्राप्त कराने में समर्थ था, जैसे कि प्रणीताग्निमें बलि डालनेपर वह और बढ़ती तथा पाणिग्रहण कराने में समर्थ भी होती है । यहाँ श्लेषके आधारपर समासोक्ति है ।। ७९ ॥ ४१५ अन्वय : तस्य शरस्य सन्धानकाले तु स्वहृदा वश्यः सः सम्मानितः अभूत् । देवः आशु जय इति वाचा स्तुतः । परे तं तथा क्रियया वै जगुः ॥ अर्थ : वह बाण धनुषपर चढ़ाते समय ही स्वयं जयकुमारके हृदय द्वारा सम्मानित, प्रोत्साहित किया गया। इधर देवोंने जय-जय बोलकर उसकी स्तुति की और शत्रुओंने भी आत्मसमर्पण द्वारा उसकी विजयका गान गाया । अर्थात् मन, वचन और कायासे जयकुमारको विजय प्राप्त हुई ॥ ८० ॥ अन्वय : अथ संप्रति सारसाक्षिलब्धपतिना नागपाशबद्धः रथसात् चक्रितुक् अशुभेन तत्तमसा भुक्तः सन्तमसारिः एव शुशुभे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy