________________
४१४ जयोदय-महाकाव्यम्
[७७-७८ विद्याबले तयोः सन्तुलयन् विलक्षोऽभूत् । मम पक्षो विद्यायां बले च परस्य सम्मुखे स्वल्परूप इति विचारमग्नो जातस्तावत्काले अहिचरस्य नाम द्वितीयसगर्नेक्तस्य स्थानं चकम्पे कम्पमवाप । भव्यस्य पुण्याधिकारिणः प्रभावो दैवं लभते, दैवमपि तस्यानुकूलतामाचरतोति भावः । अर्थान्तरन्यासः ॥ ७६ ॥ सुरः समागत्यतमां स भद्रं सनागपाशं शरमर्धचन्द्रम् । ददौ यतश्चावसरेऽङ्गवत्ता निगद्यते सा सहकारिसत्ता ॥ ७७ ।।
सुर इति । स सुरः समागत्यतमा नागपाशेन सहितं सनागपाशं भद्रं मङ्गलकमर्धचन्द्रनामकं शरं ददौ, यतोऽवसरे प्राप्ते सति या अङ्गवत्ता आत्मीयभावः, सा सहकारिसत्ता निगद्यते । अर्थान्तरन्यासः ॥ ७७ ॥ शरोऽपि नाम्नाऽवसरोऽथ जीत्या बभूव भूत्याः प्रसरः प्रतीत्या । मन्दादिकेभ्यः सुविधाविधानः कुतो ग्रहत्वेऽपि रविः समानः ॥ ७८ ॥
शर इति । स वेवेन प्रवत्तः शरो नाम्नापि शर इति । अत्र अपिशब्दोऽवच्छेदार्थो वर्तते । अथ पुनः प्रतीत्या अभिज्ञानेन स एव भूत्याः सम्पत्तेः प्रसरः, एवं जीत्या अवसरो जयदायकोऽपि बभूव । प्रहत्वेऽपि सति रविः सूर्यो यः सुविधायाः सुकरतायाः विधानं यस्मात् स मन्दादिकेभ्यः शनिप्रभृतिभ्यः कुतः समानः स्यात्, न स्यात् । तथैवायं शरोऽपि परेभ्यो विशिष्ट इति भावः ॥ ७८।। हुए अपने पक्षको निर्बल पाया तो कुछ लज्जित, उदास हो गया। उसी समय नागचर देवका आसन कांप उठा और वह दौड़ा हुआ आ पहुँचा। सच है कि भव्यपुरुषका प्रभाव अनायास ही भाग्यको अनुकूल कर लेता है । ७६ ॥
अन्वय : सः सुरः समागत्यतमा सनागपाशं भद्रच अर्धचन्द्र शरं ददौ । यतः अवसरे ( या ) अङ्गवत्ता, सा सहकारिसत्ता निगद्यते।
अर्थ : उस देवने जयकुमारको एक तो नागपाश दिया और दूसरा अर्धचन्द्र नामक बाण दिया । ठीक ही है, मौकेपर हाथ बटाना ही सहकारीपन कहा जाता है ॥ ७७ ॥
अन्वय : अथ नाम्ना शरः अपि (सः)प्रतीत्या भूत्याः प्रसरः जीत्या अवसरः बभूव । सुविधाविधानः रविः ग्रहत्वे अपि मन्दादिकेभ्यः कुतः समानः । ___ अर्थ : यह अर्धचन्द्र बाण यद्यपि नामसे तो बाण था, फिर भी परिचय हो जानेपर वह सम्पत्तिदायक और अखण्ड विजय दिलानेवाला सिद्ध हुआ। सूर्य नामसे एक ग्रह होनेपर भी प्रभावमें शनि आदिके समान कैसे हो सकता है ? अर्थात् शत्रुके अन्य शरोंसे विशिष्ट था॥ ७८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org