________________
४१२ जयोदय-महाकाव्यम्
[७१-७३ उत्तेजयामास स वा समस्तविद्याधृतामीशमितो वचस्तः । तवालसत्वं स्विदनन्यभासः क्षमे न मेऽहो सुनमेऽवकाशः ॥ ७१ ॥
उत्तेजयामासेति । वा सः अर्ककोतिः समस्तानां विद्याधृतामीशं सुनमिमितो वचस्तो पाण्यादुत्तेजयामास, यत्किल हे सुनमे, तव अनन्यभासोऽसवृशतेजः सः अलसत्व मेतादृगृपेक्षाभावमहोऽहं क्षमे पश्यन् वर्ते, तत्राधुना अवकाशो मे समीपे नास्ति ॥ ७१ ॥ जयाज्ञयाक्रम्य तदैव मेघप्रमेण विद्याधिपतिर्न येऽधः । प्रवर्तमानः सहसा मृगारिवरेण मत्तम इव न्यवारि ॥ ७२ ।।
जयाज्ञयेति । तदैव जयस्य आशया शासनेन मेघप्रभेण विद्याधरेण आक्रम्य समागत्य सः सुनमिविद्याधरेशो यो नये नीतिवमनि किल अधः पापकरोऽनर्थकारकः । सुनमे विशेषगत्वाद् अघशब्दस्य पुंस्त्वं विहितम् । स सुनमिस्तत्र प्रवर्तमानो मृगारिवरेण सिंहेन मत्त भ इव सहसा न्यवारि प्रनिरुद्धस्तेन मेघप्रभेण । उपमालङ्कारः ॥ ७२ ॥ रणोऽनणीयाननयो रभाव सदिव्यशस्त्रप्रतिशस्त्रभावैः । समुत्स्फुरद्विक्रमयोरखण्डवृत्या तदाश्चर्यकरः प्रचण्डः ॥७३॥
रण इति । तदा समुत्स्फुरन् विक्रमो ययोस्तो तयोश्चञ्चत्पराक्रमयोः अनयोः सुनमिमेघप्रभयोः रभावगाद् दिव्यशस्त्रप्रतिशस्त्रभावैः अखण्डवृत्त्या सततयोधनव्यापारेण,
'अन्वय : वा सः समस्तविद्याधृताम् ईशं अनन्यभासः तव अलसत्वम् अहं क्षमे इति मे अवकाशः न स्वित्, इतः वचस्तः सुनमें उत्तेजयामास ।
अर्थ : अर्ककीतिने स्वपक्षीय विद्याधरोंके अधिपतिको इन शब्दोंसे उत्तेजित किया कि भाई सुनमे ! तुम युद्ध में आलस्य कर रहे हो, इस समय तुम्हारे इस आलस्यको सहन करनेका मुझे अवकाश नहीं, अर्थात् पूरे बलसे काम लो॥ ७१।।
अन्वय : तदा एव जयाज्ञया मेघप्रभेण आक्रम्य प्रवर्तमानः नये अघः विद्याधिपतिः मृगारिवरेण मत्तेभः इव सहसा न्यवारि । ____ अर्थ : उसी समय इधरसे जयकुमारकी आज्ञा पाकर मेघप्रभ नामक विद्याधरने उत्तेजित हुए उस सुनमिका ऐसा सामना किया, जैसे कि कोई मतवाला सिंह हाथी का करता है ।। ७२॥ __ अन्वय : तदा समुत्स्फुरविक्रमयोः अनयोः रभात् सदिव्यशस्त्रप्रतिशस्त्रभावैः अखण्डवृत्त्या आश्चर्यकरः प्रचण्डः अनणीयान् रणः अभवत् ।
अर्थ : उस समय प्रस्फुरित बलशाली उन दोनों सुनमि और मेघप्रभका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org