________________
६९-७० ]
अष्टमः सर्गः
४११
येषां तान् । स्वयं स्वप्रभावेण सखीकृत्य काराया बन्दीगृहस्य प्राकार इव आचरितं येन तत्कारायितमनसं रथमारुरोह, हेति कष्टसूचकम् ॥ ६८ ॥
अङ्गीचकाराध्वकलङ्कलोपी ह्यरिञ्जयं नाम रथं जयोऽपि । खरोऽभ्वना गच्छति येन सूर्यस्तेनैव सोमोऽपि सुधौषधुर्यः ॥ ६९ ॥
अङ्गीति | अध्वनो नीतिमार्गस्य कलङ्कं दोषं लुम्पतीत्यध्वकलङ्कलोपी जयः कुमारोsपि तदा अरिञ्जय नामकं रथमङ्गीचकार । यतो येनाध्वना खरस्तीक्ष्णः सूर्यो गच्छति तेनैव सुषौघघुर्योऽमृत वृष्टिकरश्चन्द्रोऽपि नभसा गच्छति । दृष्टान्तालङ्कारः ॥ ६९ ॥ तेजोऽप्यपूर्वं समवाप दीप इव क्षणेऽन्तेऽत्र जयप्रतीपः । निःस्नेहतामात्मनि संब्रुवाणस्तथापदे संकलितप्रयाणः ॥ ७० ॥
तेज इति । जयस्य प्रतीपोऽरिः अर्ककीर्तिः स दीप इव अत्र अन्ते क्षणेऽपूर्वं पूर्वापेक्षयाSत्यधिकं तेजोबलमुद्योतञ्चापि समवाप । कीदृशोऽककीतिः ? आत्मनि स्वजीवने निःस्नेहतां प्रेमाभावं तैलाभावं वा संबुवाणोऽङ्गीकुर्वाणः । तथा अपवेऽनुचितमार्गे किंवा आपदे विपदे संकलितः स्वीकृतः प्रयाणो गमनं येन सः । उपमालङ्कारः ॥ ७० ॥
हो रहा था, अपने प्रभावसे मित्र-सा बनाकर कैदखानेके समान दीखनेवाले रथमें बिठा लिया ॥ ६८ ॥
अन्वय : अध्वकलङ्कलोपी जयः अपि अरिञ्जयं नाम रथं अङ्गीचकार । येन अध्वना खरः सूर्यः गच्छति तेन एव सुधौघधुर्यः सोमः अपि गच्छति ।
अर्थ : नीतिमार्गके दोषोंको नष्ट करनेवाले जयकुमारने भी अरिञ्जय नामक रथ स्वीकार किया । कारण जिस रास्तेसे तीक्ष्ण सूर्य जाया करता है, उसी रास्ते से अमृतवृष्टिकर्ता चन्द्रमा भी जाया करता है ॥ ६९ ॥
अन्वय : अत्र जयप्रतीपः अन्ते क्षणे दीपः इव आत्मनि निःस्नेहतां संब्रुवाण: तथा आपदे संकलित प्रयाण : अपि अपूर्वं तेजः समवाप ।
अर्थ : यहाँ अर्ककीर्तिने अन्त समयमें अपने जीवनके विषय में स्नेहरहित होकर और प्रयाणको स्वीकृत करके भी एक अपूर्व तेज प्राप्त किया । अर्थात् उसने पूरे उत्साह के साथ मरणकी तैयारी की, जैसे कि बुझते समय दीपक एकबार चमक उठता है ॥ ७० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org