________________
४०८
जयोदय-महाकाव्यम्
[६२-६४ बकाः पताकाः करिणोऽम्बुवाहाः शरामयूरास्तडितोऽसिका हा । ढक्कानिनादस्तनितानुवादः सुधी रणं वर्षणमुज्जगाद ॥ ६२ ।।
बका इति । तस्मिन् रणे पताकास्ता एव बकाः, करिण एव अम्बुयाहा मेघाः, शरा एव मयूराः, असय एव तडितश्चञ्चलाः, ढक्काया निनादो युखवावित्रशब्द एव स्तनितस्य मेघगर्जनस्यानुवादः। एवं कृत्वा सुषीजनो रणं वर्षणमुज्जगाव । रूपकालङ्कारः ॥ ६२ ॥ जयश्रियं श्रीधरपुत्रिकाया विधातुमानन्दपरः सपत्नीम् । जयोऽभवच्चक्रिसुतेऽय सद्यो गजं निजं प्रेरयितुं प्रयत्नी ॥ ६३ ॥
जयश्रियमिति । अथ जयः कुमारो जयश्रियं विजयलक्ष्मी श्रोषरस्य अकम्पनस्य पुत्रिकायाः सुलोचनायाः सपत्नीं विधातुं कर्तुमानन्वपरो हर्षसंयुतः सद्यः शीघ्रमेव चक्रिसुतेऽर्फको? निजं गजं प्रेरयितु प्रयत्नी यत्नवानभवत् ॥.६३ ॥ हिमे तमश्छेत्तुमिवोधतस्य रवेस्तुषारा इव ते जयस्य । . आक्रामतश्चक्रपतेस्तुजं द्रागग्रे निपेतुः पुनरष्टचन्द्राः ॥ ६४ ॥
स्वीकार कर बलात् अपने उस सुघोषनामक हाथीपर बैठ प्रतिद्वन्द्वी वीर बन गया, जिसके दोनों ओर घंटियां बज रही थीं।। ६१ ॥
अन्वय : हा यस्मिन् बकाः एव पताकाः, करिणः एव अम्बुवाहाः, शराः एव मयूराः, असिका च तडितः, ढक्कानिनादः स्तनितानुवादः । (अतः)तं रणं सुधी: वर्षणम् उज्जगाद।
अर्थ : आश्चर्य है कि उस समय रणको सुधीजनने वर्षाकालके समान कहा । कारण, उसमें पताका ही बगुले थे और हाथी ही थे बादल । मयूरके स्थानपर बाण थे, तो चमकती तलवारें बिजलीका काम कर रही थीं। वहाँ नगाड़ेकी ध्वनि मेघगर्जनाका प्रातिनिध्य कर रही थी॥ ६२॥
अन्वय : अथ जयः जयश्रियं श्रीधरपुत्रिकायाः सपत्नीं विधातुम् आनन्दपरः ( सन् ) सद्यः चक्रिसुते निजं गजं प्रेरयितुं प्रयत्नी अभवत् । ___ अर्थ : अन्तमें जयकुमार उत्साही होकर जयश्रीको. सुलोचनाकी सपत्नी बनानेके लिए उद्युक्त हो प्रसन्नचित्त होता हुआ अपने हाथीको शीघ्र ही अर्ककीर्तिकी ओर बढ़ानेका यत्न करने लगा । ६३ ।। - अन्वय : हिमे तमः छेत्तुम् उद्यतस्य रवेः तुषाराः इव पुनः ते अष्टचन्द्राः चक्रपतेः तुजम् आक्रामतः जयस्य अग्रे द्राग् निपेतुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org