________________
६०-६१ ]
अष्टमः सर्गः
बभूवेति । तत्र युद्धे अरिः शत्रुर्भूयो वारंवारमपि रम्परा खङ्गकोशस्तनयादिर्वा तस्या वृषः प्रणाशस्तन्मयोऽपि तथापिः अबलस्य बलाभावस्य, अबलायाः स्त्रियो वाऽधिकारी बभूव । जयो जयकुमारोऽपि तदानीं यः कमलाया सुलोचनाया विजयलक्ष्म्या वाऽनुसारी सनेवं स हर्षधारी जातः प्रसन्नोऽभूदित्यर्थः । समासोक्त्यलङ्कारः । परम्परा तु सन्ताने खड्गकोशे परिच्छदे' इति विश्वलोचनः ।। ५९ ॥
अवेक्षमाणः प्रहतं स्वसैन्यं सोऽन्तर्गतं किञ्चिदवाप्य दैन्यम् । तमःसमूहेन निरुक्तमूर्तिमिभं तदाऽरुक्षदथार्ककीर्तिः ॥ ६० ॥
४०७
अवक्षेति । अथ तदाऽर्ककीर्तिः स्वसैन्यं प्रहतं हतप्रायमवेक्षमाणः सोऽन्तर्गतं मनोनिष्ठं किञ्चिदन्यं कातर्यमवाप्य प्राप्य तमःसमूहेन निरुक्ता मूर्तिः शरीरं यस्य तं श्यामवर्णं करिणमरुक्षत् आरुरोह ॥ ६० ॥
द्विपं द्विपक्षायतघण्टिकाभिः सुघोषमुत्तोषवतां सनाभिः । बलादलङ्कृत्य बभ्रुव भूपः जयः प्रतिस्पर्धि नयस्वरूपः ।। ६१ ।।
द्विषमिति । जय जयकुमारोऽपि य उत्तोषवतां संहर्षणशालिनां सनाभिः जातीय: स भूपोऽपि बलाबलपूर्वकं द्वयोः पक्षयोरायता या घण्टिकास्ताभिः सहितमिति शेषः । सुघोषं नाम द्विपे हस्तिनमलङ्कृत्य समारुह्य प्रतिस्पधिनयस्वरूपः प्रतिद्वन्द्वितायुक्तो बभूव ।। ६१ ।।
अर्थ : बार-बार बलहीन होकर खड्गकोषके अभावसे युक्त होकर भी वैरी तो अबलों या अबलाओंका अधिकारी बना । इसी तरह उसी समय जयकुमार लक्ष्मीका अधिकारी होकर हर्षधारी हो गया ।। ५९ ।।
अन्वय : अथ तदा अर्ककीर्तिः स्वसैन्यं प्रहतम् अवेक्ष्यमाणः अन्तर्गतं किञ्चित् दैन्यं अवाप्य तमःसमूहेन निरुक्तमूर्तिम् इभम् अरुक्षत् ।
अर्थ : इस प्रकार अपनी सेनाको जयकुमार द्वारा परास्त होता देख अपने अन्तरंगमें विलक्षण दैन्य धारण करता हुआ उदास अर्ककीर्ति घोड़ेको छोड़ अंधकार के समूह के समान स्थित हाथीपर चढ़ गया ॥ ६० ॥
अन्वय : उत्तोषवतां सनाभिः जयः भूपः द्विपक्षायतघण्टिकाभिः सुघोषं द्विपं बलात् अलङ्कृत्य प्रतिस्पर्धिनयस्वरूपः बभूव ।
अर्थ : संतोषियोंका मुखिया राजा जयकुमार भी प्रतिस्पर्धाकी दृष्टिको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org