________________
४०६
[ ५७-५९
भिन्नारिसन्नाहकुलान् स्फुलिङ्गान सिप्रहारैरुदितान् कलिङ्गाः । स्फुरत्प्रतापाग्निकणानिवाऽऽहुर्जयस्य यः स प्रचलत्सुबाहुः ।। ५७ ।।
जयोदय-महाकाव्यम्
भिन्नारीति । कलिङ्गाश्चतुरा जना असिप्रहारैः खङ्गाघातभिन्ना येऽरीणां सन्नाहाः कवचास्तेषां कुलं समूहस्तस्मादुदितान् संजातान् स्फुलिङ्गान् जयस्य यः प्रबलत्सुबाहुः प्रच लन्मनोज्ञभुजस्तस्य स्फुरत् स्फूतिं व्रजन् यः प्रतापाग्निस्तस्य कणानिव आहुरूचुः । उत्प्रेक्षालङ्कारः ॥ ५७ ॥
यशस्तरोरङ्करकाः समन्ताद् बभ्रुः स्फुटन्तोऽरिकरीन्द्र दन्ताः । रक्तैर्निषिक्ते च रथाङ्गकृष्टे रणाङ्गणेऽस्मिन्नपि जिष्णुसृष्टेः ।। ५८ ।।
यशस्तरोरिति । रक्तेः निषिक्ते च पुना रथाङ्गेश्चक्र: कृष्टेऽस्मिन् रणाङ्गणेऽपि समन्तात्परितः स्फुटन्तोऽरिकरीन्द्राणां बन्तास्ते जिष्णोर्जयकुमारस्य सृष्टेः कर्तव्यताया यश एव तरस्तस्याङ्कुरका इव बभुविरेजुः । उत्प्रेक्षागर्भो रूपकालङ्कारः ॥ ५८ ॥
भूयोsवलाधिकारी
बभूव
परम्परावृद्विमयस्तथारिः ।
एवं स जातः कमलानुसारी जयस्तदानीमपि हर्षधारी ।। ५९ ।।
अन्वय : कलिङ्गाः असिप्रहार : भिन्नारिसन्नाहकुलान् उदितान् स्फुलिङ्गान् जयस्थ यः सः प्रचलत्सुबाहुः तस्य स्फुरत्प्रतापाग्निकणान् इव आहुः ।
अर्थं : चतुरजन कहते थे कि जयकुमारकी तलवारके प्रहारसे भिन्न शत्रुओंके कवचोंसे उठे स्फुलिंग बलवान् भुजाओंवाले जयकुमारके प्रतापाग्निके मानो अंगारे ही हैं || ५७ ॥
अन्वय : रक्तैः निषिक्ते च रथाङ्गकृष्टे अस्मिन् रणाङ्गणे अपि समन्तात् स्फुटन्तः अरिकरीन्द्रदन्ताः जिष्णुसृष्टेः यशस्तरोः अङ्कुरकाः बभुः ।
अर्थ : रक्तसे सींची गयी और रथके चक्रोंसे कर्षित की गयी रणभूमिपर वैरियोंके हाथियोंके जो टूटे हुए दाँत पड़े थे, वे ऐसे प्रतीत होते थे मानो जयशील जयकुमार द्वारा सृष्ट यशरूपी वृक्षके अंकुर ही लगे हों ॥ ५८ ॥
अन्वय : तथा ( तत्र ) भूयः अपि परम्परावृद्धिमयः अरिः अबलाधिकारी बभूव । एवं तदानीम् अपि सः जयः कमलानुसारी हर्षधारी (च ) जातः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org