SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ३७-३९] अष्टमः सर्गः टमः सर्गः ३९७ अप्राणकैः प्राणभृतां प्रतीकैरमानि चाजिः प्रतता सतीकैः । अभीष्टसंभारवती विशालाऽसौ विश्वस्रष्टुः खलु शिल्पशाला ।। ३७ ॥ अप्राणकैरिति । अप्राणकः प्राणजितैः प्राणभृतां जीवानां प्रतीकैरङ्ग हस्तपादाविभिः प्रतता परिपूर्णा आजियुद्धभूमिः सती च अभीष्टसंभारवती च वाञ्छितसामग्रीपूर्णा, विशाला प्रशस्तविस्तारा विश्वस्रष्टुर्जगन्निर्मातुः शिल्पशाला इति कर्लोरमानि अमन्यत । उत्प्रेक्षालङ्कारः ॥ ३७॥ प्रणष्टदण्डानि सितातपत्रच्छदानि रेजुः पतितानि तत्र । सम्भोजनायोजनमाजनानि परेतराजेव नियोजितानि ॥ ३८ ॥ प्रणष्टेति । तत्र युद्धस्थले प्रणष्टा दण्डा येषां तानि, सितानि श्वेतानि यान्यातपत्राणि छत्राणि तेषां छवानि आवराणांशुकानि तानि पतितानि परेतराजा यमेन नियोजितानि नियुक्तानि सम्भोजनस्य सामूहिकभोजनस्य योजनं विधानं तस्य भाजनानीव पात्राणीव रेजुः शुशुभिरे। उपमालङ्कारः ॥ ३८ ॥ पित्सत्सपक्षाः पिशिताशनायायान्तस्तदानीं समरोर्वरायाम् । चराश्च पूत्कारपराः शवानां प्राणा इवाभुः परितः प्रतानाः ।। ३९ ॥ ___ अन्वय : अप्राणकैः प्राणभृतां प्रतीकैः प्रतता आजिः च ( कैः ) सती अभीष्टसंभारवती विशाला असौ विश्वसृष्टुः शिल्पशाला खलु अमानि । अर्थ : वह रणभूमि योद्धाओंके कटे निष्प्राण हाथ, पैर, सिर आदि अवयवोंसे भर गयी थी। कुछ लोगोंको वह ऐसी प्रतीत होती थी मानो वाञ्छितसामग्रीपूर्ण विश्वकर्माकी शिल्पशाला ही हो ।। ३७ ॥ अन्वय : तत्र प्रणष्टदण्डानि सितातपत्रच्छदाणि पतितानि परेतराजा नियोजितानि संभोजनायोजनभाजनानि इव रेजुः । ____ अर्थ : डण्डोंसे विहीन राजचिह्न सितच्छत्र उस रणस्थलमें पंक्तिबद्ध पड़े हुए थे, जो ऐसे प्रतीत होते थे मानो यमराजने जीमनवार करनेके लिए क्रमवार भोजनपात्र बिछाये हों, पत्तलें ही परोसी गयी हों ।। ३८ ।। ___अन्वय : तदानीं समरोवरायां पिशिताशनाय आयान्तः पित्सत्सपक्षाः परितः प्रतानाः चराः च पूत्कारपराः शवानां प्राणाः इव अभुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy