________________
जयोदय-महाकाव्यम्
[ ११-१२
उपढौकिताऽऽक्रान्ततमा रजोधर्मयुक्ता रेणुबहुला वा वक्षकन्याश्चतुराः स्त्रियो वा दिशाश्च सम्प्रति तत्कालमेव भेरीणां प्रतिध्वानस्य ध्वनेरुत्तरध्वानस्य यद्विषानमुत्पादनं तज्जन्यां तज्ज्ञातिकां निषेधिकमाहरूचुः । रजस्वलायाः स्पर्शनमप्यनुचितं किं पुनरालिङ्गनं बहुरोगकरं यदुभयत्रेति । उत्प्रेक्षालङ्कारः ॥ १० ॥
३८६
समुद्ययौ संगजगं गजस्थः पत्तिः पदातिं रथिनं रथस्थः । अश्वस्थितोऽश्वाधिगतं समिद्धं तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ॥ ११ ॥
समुद्ययाविति । तस्मिन् युद्धे गजस्थो हत्यारूढः संगजगं गजारूढं समुचयो सञ्चक्राम, पत्तिः पादचारी पदातिमाचकाम । रथी स्यन्दनस्थो रथिनं रथारूढमक्रामत् । अश्वस्थितोऽश्ववारः अश्वाधिगतं तुरगारूढमाक्रामत् । इत्थं तुल्यः प्रतिद्वन्द्वी प्रतिवीरो यस्मस्तत् समिद्धं तुमुलं युद्धं बभूव ॥ ११ ॥
द्वयोः पुनश्चाहतिमुज्जगाद प्रपक्षयोरायुधसन्निनादः । प्रोल्लासयन् सड्ड्मरुप्र सिद्ध-सूत्राङ्कवद् वीरनटान् समिद्धः ॥ १२ ॥
द्वयोरिति । द्वयोः प्रपक्षयोर्वोरनटान् वीरा एव नटास्तान् प्रोल्लासयन् उत्साहितान् कुर्वन् समिद्धोऽत्वारो य आयुधानां सन्निनादः कडकडाशब्दः स सड्डुमरोर्वाद्य विशेषस्य यः प्रसिद्धः सूत्राङ्कस्तद्वत् पुनर्वारं वारमाहतिमाघातमुज्जगाद ॥ १२ ॥
अर्थ : उस समय सभी दिशाएँ रजस्वला ( धूलीयुक्त ) हो गयी थीं । अतएव सहसा धीर-वीरों द्वारा आक्रान्त हो जानेपर वे युद्ध-भेरीकी प्रतिध्वनिके व्याजसे मानों उन्हें मना रही थीं क्योंकि रजस्वलाका स्पर्श निषिद्ध माना गया है ॥ १० ॥
अन्वय : ( तस्मिन् ) गजस्थः सङ्गजगम्, पत्तिः पदातिम्, रथस्थः रथिनम्, अश्वस्थितः अश्वाधिगतं समुद्यय, इति तुल्यप्रतिद्वन्द्वि, समिद्धं युद्धं बभूव ।
अर्थ : उस युद्ध में गजाधिपके साथ गजाधिप, पदातिके साथ पदाति, रथारूढके साथ रथारूढ और घुड़सवारके साथ घुड़सवार जूझ पड़े। इस प्रकार अपने-अपने समान प्रतिस्पर्धीके साथ भीषण युद्ध हुआ ॥ ११ ॥
अन्वय : समिद्धः आयुधसन्निनादः सड्डमरु प्रसिद्धसूत्राङ्कवत् द्वयोः प्रपक्षयोः वीरभटान् प्रोल्लासयन् च पुनः आहतिम् उज्जगाद ।
अर्थ : उस समय इधर-उधर चलती तलवारों की जो ध्वनि हो रही थी, वह दोनों ओरके योद्धारूप नटोंको उल्लसित करती हुई डमरूका काम कर रही थी ॥ १२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org